________________
२८०
न्यायतात्ययंदौपिका।
नश्यतीति तत्सम्बन्धस्य कृतकत्वान्नाश: प्रमज्येत। तथाहि । मुखसंवेदनयोः सम्बन्धो विनाशो कतकत्वात् घटवदिति । सम्बन्ध स्य नाश च मुक्तस्य पुनः संसारित्व प्रसङ्गोऽपि ज्ञेयः ॥ १५७ ॥ परिहरति।
न प्रध्वंसेनानैकान्तादिति ॥ सम्बन्धानित्यत्वसाधकस्य कतकत्वस्य हेतोः प्रध्वंस (भावनानैकान्तिकत्वात् त्वदु तो हेतुर्दुष्टो भवतीति शेषः । सादिरनन्तश्वाभावः प्रध्वंसस्तस्य कृतकत्वेऽप्यनश्वरत्वात् । ततः पक्षनयत्तित्वात् कतकत्वस्य हेतोव्यक्तमनेकान्तिकत्वम् ॥ १५८ ॥ पुनः शकते।
वस्तुत्वे सतीति चेदिति ॥ प्रागुतेऽनुमाने वस्तुले सति कृतकत्वादिति हेतौ सविशेषण कतेऽनेकान्तिकत्वं न भविष्यति । प्रध्वंसस्याभावरूपतयाऽवस्तुत्वादित्यर्थः ॥ १५८ ॥ परिहरति ।
न द्रव्यादिष्वनन्तर्भावेन तदसिद्धत्वादिति ॥ द्रव्यादिषु द्रव्यगुण कमसामान्यविशेषसमवायेष्वनन्तर्भावना.. प्रवेशेनास्य वस्तुत्वस्यासिद्धत्वादित्यनैकान्तिकत्वपरिहारो न भवति । अयमर्थः । भवन्मते द्रव्यादिषट्पदाथै वस्तुत्वम् । ततः सुखसंवेदनयोर्वस्तुरूपो यो विषय विषयिभावः सम्बन्धः स किं द्रव्यादिष्वन्तर्भवति नो वा। अन्तर्भावपक्ष: पुरः क्षोत्स्यते ।
Aho! Shrutgyanam