________________
भागमपरिच्छेदः ।
२८१
नान्तर्भवति चेत्तहि सम्बन्धस्य न वस्तुत्वसिद्रिव्यादिषु क्वापि तदनन्तर्भावात् । ट्रयादिषट्कान्तर्गतस्यैव वस्तुत्वाभ्युपगमाञ्च । अन्यथाभावस्यापि वस्तुत्वापत्तेः ॥ १६० ॥ अन्तर्भावपक्षं प्रतिक्षेप्तुमाह । __ अन्तर्भाव वा समवायाभावादिभिः सह तत्संवेदनस्य सम्बन्धी न स्यादिति ॥
समवायो युतसिद्धानामाधा-धारभूतानामिहेप्ति प्रत्यय हेतुः सम्बन्धः । अभावो भावप्रतिपन्यो । श्रादिशब्दासंयोगग्रहस्तैः सह तत्संवेदनस्य वस्तुरूपविषयविषयिसम्बन्धज्ञानस्य सम्बन्धो न घटामटाट्येत । अयमर्थः । वस्तुरूपविषयविषयिसम्बन्धो यदि ट्रयादिषट्पदायामन्तर्भाव्यत तहि द्रव्यादिषु यथा कथञ्चित्तसम्बन्धो भवेत् । परं समवायेनाभावादिभिश्च सह विषयविधिसम्बन्धसंवेदनसम्बन्धो न भवेत् । तथाहि समवायस्तावत् स्वयं सम्बन्धः । सम्बन्धे च सम्बन्धान्तरं यदि स्वीक्रियते तहि तत्रापि मम्बधान्तरं तत्रान्यन्यदित्यनवस्थालतालूता लालम्बात्तत्तः कथं समवायेन मह सम्बन्धस्तथाऽभावस्यावस्तुरूपत्वात् संयोगस्य च स्वयं सम्बन्ध त्वात् ताभ्यां सहापि वस्तरूपविषयविर्षायसम्बन्धसंवेदनसम्बन्धी दुर्घट एव । एवञ्च त्वन्मत कुतो वस्तु स्वरूपो विषयविषयिसम्बन्धा येन वस्तुत्वे सतीति विशेष गाई पेण क तक त्व हतो रन कान्तिकत्वमुक्तिः स्यादिति ॥ १६१ ॥ प्रकारान्तरेण विषयविषयिसम्बन्धं शतं ।
Aho! Shrutgyanam