________________
२८२
न्धायतात्पर्य्यदीपिका।
अदृष्टादिवशात् कम्मकारकं विषयः। तज्जनितं ज्ञानं विषयोति चेदिति ॥
अदृष्टं धर्माधी आदिशब्दादोश्वरादिग्रहः । कम्मत्यादि । कम्मं च तत् कारकच कम्मकारकं ज्ञेयरूपं द्वितीयाविभक्त्यन्तं वस्त्विति यावत् । तज्जनितमिति विषयजनितम् । अयमर्थः । पुमान् यत्किञ्चिद्वस्तु पश्यति सम्माधर्मादिवशात्। ततो यददृष्टादिप्राप्यं घटादि ज्ञेयं वस्तु स विषयस्तेन च विषयेण जनितं ज्ञानं विषयि । एतेन ज्ञानं स्वरूपेणे व विपर्ययस्तु स्वरूपेण न विषयः । किन्तु ज्ञानजनकत्वेनेत्युक्तम् । एवं सम्बन्धसिद्धौ सुखसंवेदनसम्बन्धस्य नश्वरत्वं तदवस्थमित्यथैः ॥ १६२ ॥ परिहरति ।
नेश्वरज्ञानस्य नित्यस्याथै: सह सम्बन्धाभावप्रसङ्गादिति ।। यद्यर्थों ज्ञानस्य स्वरूपेण न विषयः किन्तु तज्जनकलेनेति मतम् । तदा नित्य स्येश्वरस्य ज्ञानस्यार्थ: सह सम्बन्ध एव न स्यात्तस्यादृष्टाद्यपक्षितवस्त्वजन्यत्वात्। न हि यथा लौकिक ज्ञानं विविधघटादिविषयेण जन्यत तथेश्वर ज्ञानमपि जन्यते । नवरत्वापत्तेः। किञ्च ज्ञानस्य विषयजन्यत्वेऽभ्यपगम्यमानेऽस्मदादि. ज्ञानस्याप्यर्थः सह सम्बन्धी न स्यादतीतभविष्यत्पदार्थानाममत्त्वेन कारणत्वाघटनात्। अस्ति च नित्य स्यापीश्वरस्य ज्ञानस्यार्थसम्बन्धो न च स लतकोऽपि विनाशीति सम्बन्धानित्यवसाधक त्वहेतुमिड इति ॥ १६३ ॥
Aho! Shrutgyanam