________________
आगमपरिच्छेदः ।
२८३
उपसंहरति ।
तस्मात्कृतकत्वेऽपि नित्य सुख संवेदनसम्बन्धस्य विनाशकारणा
भावान्नित्यत्वं स्थितमिति ॥
नित्य सुखसंवेदन सम्बन्धस्य यद्यपि कृतकत्वमस्ति । तथापि तद्विनाशकारणाभावात्तस्य नित्यत्वं स्थितं सिद्धमिति यावत् । TS । सम्बन्धः कृतकत्वेन स एव विनश्यति । यद्दिनाशहेतुः स्याद्यथा घटादिविनाशे मुद्गरादिः । न हि नित्यसुखसंवेदनसम्बन्धविनाशे कोऽपि हेतुरस्ति । कृतकत्वमेव भविष्यतीति चेन्न । तस्य प्रागपि निर्लोठितत्वात् । तस्माद्दिनाशकारणाभावात् सुखसंवेदनसम्बन्धस्य नित्यत्वं स्वतः सिद्धमिति । तथाच प्रयोगः | मुक्तसुखसंवेदनयोः सम्बन्धः कृतकीऽपि न विनश्यति विनाशकारणाभावात् प्रध्वंसाभाववदिति ॥ १६४ ॥
-
अथ स्वाभिमतसिद्धिं दर्शयति ।
सिद्धमेतव्रित्य संवेद्यमानेन सुखेन विशिष्टात्यन्तिको दुःखनिवृत्ति: पुरुषस्य मोक्ष इति ॥
Aho! Shrutgyanam
नित्यसंवेद्यमानेनेति पदेन सांसारिक सुखातिव्याप्तिव्युदासः । सुखेनेति पदेन काणादाभिमते मोक्षप्रतिक्षेपः । श्रात्यन्तिकौति पदेन भवोद्भूतकादाचित्कदुःखनिवृत्तिव्यावृत्तिः । पुरुषस्येत्यात्मनः । अयमर्थः । सोपाधिसावधिकपरिमित त्रिदशमन्दिर सुखादवि निरुपाधिनिवध्यपरिमित सुखसंसगदग्रा या सार्वदिकी दु:खनिवृत्तिः सा पुरुषस्य मोक्षो भवति ॥ १६५ ॥