________________
२७२
न्यायतात्पर्य दीपिका।
भुञ्जीत विषयान् कश्चित्कश्चिदुग्रं तपश्चरेत् । संहरेच्च पुनस्तानि सूर्य्यस्तेजोगणानिव ॥ इति यदा क्षेत्रज्ञस्य पुरुषायुषात्क माण्य धिकानि भवन्ति । तदा विशिष्टाङ्गयोगबलेन युगपद्दनि शरीराणि सृष्ट्वा तैश्च कश्चिद्भोगान् भुक्ता कैश्चित्तपस्तावा च प्रक्षीणेषु सर्वकर्मसु तानि पुनरात्मा मंहरति । यथा सूर्य: स्वतेजांसि प्रसार्य पुनः संहरति । तथेत्यर्थः ॥ १२१ ॥ उपसंहरति ।
तदेवमपरात्मतत्त्वज्ञानपरलोकसदावन परलोके प्रवृत्त्य्पयोगित्वाधर्मक्षयहेतुत्वाच्च निःश्रेयसाङ्गमितीति ॥
तदेवं पूर्वोक्तयुक्त्या व्यवस्थापितमपरमात्मनो जीवस्य तत्त्वज्ञानं यथावस्थित स्वरूपावबोधः। स्वर्गापवर्गरूपपरलोकास्तिखेन परलोके स्वर्गादिविषये तपःसंयमनियमोपासनलक्षणप्रवृत्त्यपकारित्वात्। अधर्मः पापं तत्क्षय हतुवाच नि:थेयसस्य मोक्षस्थोपायो भवति । परलोकसहावेनेति पदं परलोकार्टतपःसंयमादिप्रवृत्तिनिमित्तार्थम् । यदि प्राक् परलोकोऽस्तौति न प्रतिपद्येत तर्हि तपस्याप्रवृत्तिभिः कष्टैः कः वञ्चिक्लिश्येतात्मतत्त्वज्ञाने स्फुरिते स्वर्गादिपरलोके स्वीकृत तप:संयमादिना यामनि प्रलीने मोक्षो भवतीत्यर्थः ॥ १२२ ॥ अथ परमात्मज्ञानस्य मोक्षाङ्गत्वं लक्षयति ।
परमात्मज्ञानं च तदुपासनाङ्गत्वेनापवर्गसाधनमितीति ॥ तस्य परमात्मन उपासनाङ्गमाराधनोपायस्तावेन परमात्म
Aho! Shrutgyanam