________________
भागमपरिच्छेदः।
२७३
साधनं ज्ञानं मोनसाधनं भवति। परमात्मानं सम्यग्विज्ञायोपास्य च संसारी मुच्यत इति भावः ॥ १२३ ॥ उपासनस्वरूपं निरूपयति ।
स चोपासनविधिः । केशक्षयसमाधिलाभार्थमनुष्ठानमिति ॥ क्लेशा रागद्वेषमोहाभिनिवेशास्तत्क्षयाय यः समाधिः परमामनि चित्तैकतानता तप्राप्ताथं यदनुष्ठानं तप:स्वाध्यायादि विधेयम् । तदुपासनविधिर्भवति। एतेन यत् क्लेशविनाशकसमाधिसिद्धार्थ न भवति तत्कष्टमात्रमित्युक्तम् ॥ १२४ ॥ अनाध्यात्मशास्त्रसम्मतिं दर्शयति ।
तथाचोत्तम् । तपःस्वाध्यायेखरप्रणिधानामिका क्रिया योगः । केगतन करणार्थः समाधिलाभार्थश्चेति ॥
तपःप्रभृतीनि वक्ष्यमाणलक्षणानि । तदारिमका क्रिया कायवामनोव्यापारः। सा योगहेतुत्वाद्योग इत्युच्यते। स च राग. हेषमोहरूपलेशलाघवाय चित्तैकतानतामकसमाधिसिद्धेय च भवति। तपःप्रभृतिभिः लेशांस्तनकल्य समाधिमास्तिनुत इत्यर्थः ॥ १२५ ॥ तपो लक्षयति ।
तत्रोमादकामादिव्यपोहार्थमाध्यामिकादिदुःखसहिष्णुत्वं तप इति ॥
कामादीत्यवादिशब्दात् क्रोधादिपरिग्रहः । प्राध्यामिकादीत्यादि। दुःखं विधाध्यामिकाधिभौतिकाधिदैविकभेदात् । तत्रा मानमधिकृत्य जातमाध्यात्मिक व्याध्यादि। भूतान्यधिकत्य
Aho! Shrutgyanam