________________
२७४
न्यायतात्पर्य्यदौपिका।
जातमाधिभौतिक मानवपश्वादिभूतजनितप्रहारादि। देवमधिकृत्य जातमाधिदैविकं शीतवातातपादि। स्वेच्छया तत्त्रिविध- . दुःखमहिणुत्वं चान्द्रायणादिरूपं तप इत्युच्यते ॥ १२६ ॥ स्वाध्यायं निरूपयति।
प्रशान्तमन्त्रस्येश्वरवाचिनोऽभ्यास: स्वाध्याय इति ॥ पौन:पुन्येन परिशीलनमभ्यामः। कार्मणादिक्षुट्रकर्मकररौद्रमन्त्र निवारणार्थ प्रशान्तेत्युक्तम् । शेषं स्पष्टम् ॥ १२७ ॥ ईखरप्रणिधानं बोधयति ।
परमेश्वरतत्त्वस्य प्रबन्धनानुचिन्तनमीश्वरप्रणिधानमिति ॥ परमेश्वर तत्त्वस्य परमात्मस्वरूपस्य प्रबन्धेन नैरन्तर्येण यदनुचिन्तनं पालोचनं तदीश्वरप्रणिधानं शिवध्यानं भवति ॥ १२८ ।
पूर्व तपःप्रभृतिको योगः क्लेशतनूकरणार्थों भवतीत्युक्तमासीदतः क्लेशानाह।
समामतो रागद्देषमोहा: क्लेशा: ममाधिप्रत्यनोकाः । संसारापत्तिहारेण क्लेश हेतुत्वादिति ॥ ___समासत इति। यद्यपि व्यासाइहवस्तथापि सपात् लेशा रागाद्यास्त्रय एव । क्लंशानां त्रित्वप्रतिपादनेन तत्प्रत्युक्तम् । यदुक्तं सांख्यः सांख्य सप्तत्याम् ।
पञ्चविपर्ययभेदा दशधा शक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिनवधाष्टधासिद्धिरिति ॥ कारिकायाम् । अविद्यास्मितारागद्देषाभिनिवेशा यथासंख्यं तमोमहामोहमोहतामियान्धतामिस्रसंज्ञाः पञ्चविपर्ययाः केशा
Aho! Shrutgyanam