________________
आगमपरिच्छेदः ।
२७५ परनामान इति । आत्मज्ञोक्तार्थविपरीतज्ञानमविद्या। पुरुष. बुयोर कात्मतवास्मिता। स्वरसवाही विदुषोऽपि तथा रूढ़ः कदाग्रहोऽभिनिवेश इति । स्वरूपाणामविद्यास्मित्ताभिनिवेशानां मोहस्वभावत्वात् । रागेत्यादि । प्रोत्यात्मको रागः । अप्रोत्यात्मको हेषः। विपर्यस्तज्ञानं मोहः । समाधिप्रत्यनीका इति परब्रह्मणि चित्तैकतानत्वविनाशका: । रागादौनां प्रोत्याद्यात्मक वात् कथं क्लेशत्वभित्याह संसारेत्यादि। भवतापायेन । अयमर्थः । यद्यपि रागादया मुख्य हत्त्या लेशशब्दवाच्या न भवन्ति तथापि समाधिप्रतिकूलत्वेन दुःखभारापारसंसारकारणत्वात् क्लेशा भवन्ति ॥ १२६ ॥
यथा तपः प्रभृतयः केशविनाशकास्तथाष्टाङ्गोऽपि भवतीति तदङ्गाष्टकमाचष्टे ।
तथा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानौति ॥ __ यमादीनां लक्षणं प्रत्येक स्वयमेव वक्ष्यति । अष्टावङ्गानीत्यत्र योगस्येति शेषः ॥ १३० ॥ तत्रादौ यमाल्लक्ष यति ।
तत्र देशकालावस्थाभिरनियताः पुरुषस्य शुद्धिहितवी यमा अहिंसाब्रह्मचर्यास्तेयादय इति ॥
.* The realing adopted by the commentator hiere differs some what from the text (sce page 38 Line 11-12). .
Aho! Shrutgyanaml