SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ न्यायतात्पय्यदीपिका । तत्रेति निर्धारणे । अवस्थेति बालत्वादिलक्षणा । श्रनियता इति असङ्कोचिताः । शुद्धिः कल्मषक्षत्रयः । वृद्धि: पुण्योपचयः । यमा इति यम्यते बाध्यतेऽनर्गलं चलचित्तमेभिरिति यमाः । अस्तेयादय इत्यत्रादिशब्दात्सत्यादिपरिग्रहः । श्रयमर्थः । देशादिभिरनियताः सर्वस्मिन् देशे सर्वस्मिन् काले सर्वस्थां बाल्या. व्यवस्थायां न हिंसिष्यामि, ब्रह्म चरिष्यामि, न चोरयिष्यामि, नासत्यं वक्ष्यामि न परिग्रहीष्यामि इति स्वरूपाः पापापचायकाः पुण्योपचायकाचा हिंसा ब्रह्मचर्यास्तेय सत्यापरिग्रहा यमा भवन्ति । अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमा इति २७६ देशकालावस्थाभिरनियता इति पदं नियमेष्वति वचनात् । व्याप्तिनिषेधार्थम् ॥ १३१ ॥ नियमानभिधत्ते । देशकालावस्थापेक्षिणः पुण्यहेतवः क्रियाविशेषा नियमा देवताप्रदक्षिणसन्ध्योपासनजपादय इति ॥ नियम्यते चित्तमेभिरिति नियमाः । देशकालावस्थापेक्षिण इति पदं यमेष्वतिव्याप्तिव्यवच्छेदार्थम् । तत्र देशापेक्षि देवताप्रदक्षिणं दक्षिणे भ्रान्त्वा वामदिग्गमनात् । कालापेक्षि सन्ध्योपासनं प्रातर्मध्यासायंकालेषु सन्ध्योपासनात् । अवस्थापेक्षी जपः परिणतावस्थायां जपानुज्ञानात् । जपादय इत्यत्रादि. शब्दात्तपःप्रभृतयोऽन्येऽपि व्रतविशेषा ग्राह्याः । ततो देशाद्यपेक्षिणः पुण्यप्रवर्त्तका देवताप्रदक्षिणादयः क्रियाविशेषा नियमा भवन्ति ॥ १२२ ॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy