________________
प्रागमपरिच्छेदः।
२०१
क्रियात्वासं प्रतिपत्रक्रियावदिति । धर्माधर्मी च निजाश्रयादन्यत्र वाबादौ गुणत्वागुरुत्वादिवनिजाश्रयसंयुक्तावेव क्रियां कुर्बोयातां नान्यथा । यथा गुरुत्वं द्रवत्वं वा स्वाश्रय संयुक्त मेवाश्रयान्तरे पतनादिक्रियां करोति तथा। प्रयोगमात्र धर्मादिः स्वाश्रय संयोगापेक्ष एव वाय्वादिक्रियाजनको गुणत्वागुरुवादिवत् । धर्माधर्मों त्वात्मनो गुणौ । गुणौ च गुणिनं विहाय न क्वापि तिष्ठतः । ततः सार्वत्रिक्या वाव्यादिक्रियाया धर्माधर्मापेक्षित्वे धर्माधर्मयोश्च स्वाश्रयसंयुक्तयोरेव क्रियाकलानिजाश्रय स्यात्मनोऽपेक्षितयात्मा व्यापकः सिद्धयति । तथाचार्थापत्तिः। श्रात्मा व्यापकः सर्वत्र वाय्वादिक्रियाजनकधर्माधर्मसद्भावान्यथानुपपत्तेरिति । तथायमात्माष्टाङ्गयोगजुष्ट पुण्यनैपुण्यवशात्प्राप्ताणि. मादिसिवाष्टको ह्यायुषि स्तोके सति भोग्यभूरिकर्म निर्मूलनाय युगपदसंख्यानि शरीराण्य धितिष्ठति। तच्च युगपबहुशरीराधिठानं व्योमवद्ध्यापकलं विना नोपपद्यते । ततो युगपदसंख्यातदेहाधिष्ठानादण्यात्मा व्यापको भवति। अत्रापि प्रयोगः । आत्मा व्यापको युगपदसंख्यातशरीराधिष्ठाटत्वात् व्योमवदिति । सिद्धः क्षेत्रन्नो व्यापकः ॥ १२० ॥
अणिमादिसियष्टकजुष्टस्य क्षेत्रज्ञस्य युगपदहुदेहाधिष्ठात्वे पुराणोक्तिं च दर्शयति । तथाचोक्तम् । पुराणादिषु ।
आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबल कुर्यात्तैश्च सवी महौं चरेत् ॥ १ ॥
Aho! Shrutgyanam