Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 616
________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् प्रशस्तपादभाष्यम् न ह्येतस्मिन्नसति 'पूर्वेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति, गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात् / तथाहि प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम, विदुषामन्वयव्यतिरेक स्मरणात् तदर्थावतिर्भविष्ट तीति तस्मादत्रैवार्थपरिसमाप्तिः / न्यायकन्दली इत्यस्य साफल्यम् / एतदेव दर्शयति- प्रतिपाद्यत्वेनोद्दिष्ट इत्यादिना / प्रथमं वचनमात्रेण परेषां साध्यनिश्चयो न भूतः; तेषां हेतूदाहरणोपनयैरवयवहतोस्त्ररूप्ये दर्शिते सजातानुमेयप्रतिपत्तिसामर्थ्यानां प्रत्याम्नाये कृते "परिसमाप्तेन' वाक्येन परिपूर्णेन 'वाक्येन' निश्चयो जायत इत्येतदर्थ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः प्रवर्तते, तस्योदाहरणम् - तस्माद् द्रव्यमेवेति / . हेत्वादिभिरवयवैरेव साध्यं निश्चीयते कि प्रत्याम्नायेन ? इत्यत आहन ह्येतस्मिन्नसतीति / प्रतिज्ञादयोऽवयवाः प्रत्येक स्वार्थमात्रेण पर्यवसायिनोऽसति प्रत्याम्नाये नेकमर्थं 'प्रतिपादयितुमीशते, स्वतन्त्रत्वात् / सति त्वेतस्मिन्नेतदर्थाकाडाक्षोपगृहीताः अङ्गाङ्गिभावमुपगच्छन्तः शक्नुवन्तीति युक्तः प्रत्याम्नायः / पुनश्चोदयति गम्यमानार्थत्वादिति / . [पं०] गम्यमानार्थत्वादिति (कं. 252.19) "चेदिति भाष्यमेतत् / तस्येति (कं. 252.25) लिङ्गस्य / बहिर्व्याप्तिपक्षधर्मतामात्रमिति (कं. 252.26) बहिर्व्याप्तिदष्टान्तवचनम / तस्मिन्निति (कं. 252.26) उभय रूपे सामर्थ्य। तदुभयमिति (कं. 253.) बहिर्व्याप्तिपक्षधर्मतात्वलक्षणमबाधितविषयत्वाऽसत्प्रतिपक्षत्वलक्षणं चेति तद्भयम / उपसंहृतेऽपि साधने (कं 253.2) इत्यनेनोपनय उक्तः / प्रख्यापितसामर्थ्यमिति (कं. 253.5) उपनयनस्यो[दी]रितसाध्यसाधनशक्तिकमित्यर्थः / साधनमिति (कं. 253.5) कर्तृभूतम् / अस्येति (कं. 253 6) प्रत्याम्नायस्य / . प्रतिपन्नमिति (कं. 253.8) पुमांसम् / दुरुन्नेयत्वादिति (कं. 253 10) पाठस्थाने 'दुरन्वयत्वादित्यपि पाठः क्वचिदृश्यते, तत्र दुरुन्नयत्वाद् दुर्लक्ष्यत्वादित्यर्थः / तच्छक्त्यनुरोधादिति (क 253.10) प्रतिपाद्यशक्त्यनुरोधात् / विचित्रशक्ति[म] त्वादिति (कं. 251.11) कोऽपि हि कियदपि परिच्छिनत्ति / "सि / कु.] सन्धानपूर्वक नियतककोटिजिज्ञासा / एतदु[आ] कांक्षोद्यतनया चाकांक्षया वाक्यानां परस्परं प्राधाना(न्या)पसर्पणभावमानाकुल: प्रतिसन्दधानः प्रतिपत्वासंसर्गरूपमेकमर्थमवगच्छतीति भावः / 1 परेषां - कं. 1; कं. 2, कि / 2 दर्शनात् अथाधिगति - व्यो. (617) / 3 परिसमाप्तेन परिपूर्णन - कं. 1: कं. 2 / 4 प्रत्याययितुं-कं.१; कं. 2 / 5 नाकाङ्क्षो -कं. 1; कं. 2 / 6 दिति-कं. 1; कं. 2 / 7 चेद् कं. 1 पुस्तके कन्दल्यां नास्ति - भाष्ये तु अस्ति। 8 प्रतीकमिदं-कं. 1 पुस्तके नोपलभ्यते। 9 पा. 1 / 2 / 4. पु। 10 इत ऊध्वं पत्राणि नोपलभ्यन्ते /

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748