Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 712
________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 687 प्रशस्तपादभाष्यम् प्रदीपात्, न तु प्रदीपे प्रदीपान्तरात् / 'यथा वाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषाम्, तथापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः, तद्योगात् 'परमाण्वादिष्विति / / इति प्रशस्तपादभाष्ये विशेषपदार्थः समाप्तः / . न्यायकन्दली पुनश्चोदयति-अथान्त्यविशेषेष्विति / न तावदन्त्यविशेषेष्वपि विशेषान्तरसम्भवोऽनवस्थानात् / यथा च तेषु विशेषान्तरमन्तरेण स्वत एव प्रत्ययव्यावृत्तिर्भवति योगिनां तथा परमाणुष्वपि भविष्यति ? किं विशेषकल्पनयेत्यत्रोत्तरमाह-नेति / यत्त्वयोक्तं तन्न, कुतस्तादात्म्यात् / एतवेव विवृणोति-इहेति / अतदात्मकेष्वन्यनिमित्तः प्रत्ययो भवति, न तदात्मकेषु / यथा घटादिष्वप्रकाशस्वभावेषु प्रदीपादेः प्रकाशस्वभावात् प्रकाशो भवति, न तु प्रदीपे प्रदीपान्तरात् प्रकाशः किन्तु स्वत एव / 'यथा वाश्वमांसादीनां स्वत एवाशुचित्वम्, स्प्रष्टुः प्रत्यवायकरत्वं तद्योगात् / तत्सम्बन्धादन्येषामशुचित्वम् / तथेहापि तादात्म्यादत्यन्तव्यावृत्तिस्वभावत्वादन्त्यविशेषेषु स्वत एव स्वरूपादेव प्रत्ययव्यावृत्तिन 'विशेषान्तरसम्बन्धात् / अतदात्मकेषु तु परमाग्वादिषु 'साधारणधर्मकेषु विशेषयोगादेव प्रत्ययव्यावृत्तियुक्ता न स्वरूपमात्रादिति / नित्यद्रव्येषु सर्वेषु परस्परसधर्मसु / प्रत्येकमनवर्तन्ते विशेषा भेदहेतवः // इति भट्टश्रीश्रीधरकृतायां पदार्थप्रवेशन्यायकन्दलीटीकायां विशेषपदार्थः समाप्तः॥ इति मलधारी श्री शिडिलकसूरिशिष्य श्रीराजशेखरसरिविरचितायां श्रीन्यायकन्दलीपञ्जिकायां विशेषपदार्थः समाप्तः। [कु०] // [इति] विशेषाः // . 1 यथा गवाश्व-कं. 1, कं.२। 2 परमाणष-व्यो. (695) / 3 यथा गवा-कं. 1, कं. 2 / 4 सम्भवात कं. 1, कं.२ पुस्तकस्य सम्पादकेन सूचितः पाठः जे. 1, जे. 2, जे. 3 पुस्तकेष्वस्ति। 5 परमाणुष-कं. 1, - कं.२। 6 सामान्य-कं. 1, कं.२।

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748