Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra
View full book text
________________ 690 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [266] न चासौ संयोगः, सम्बन्धिनामयुतसिद्धत्वात्, अन्यतरकर्मादिनिमित्तासम्भवात, विभागान्तत्वादर्शनात् अधि करणाधिकर्तव्ययोरेव भावादिति / न्यायकन्दली एतदेव कथमित्यादिना प्रश्नपूर्वकमुपपादयति-यथा इह कुण्डे दधीति प्रत्ययः कुण्डदघ्नोः सम्बन्धे सति दृष्टः तथेह तन्तुषु पट इत्यादिप्रत्ययानां दर्शनादस्त्येषां तन्तुपटादीनां सम्बन्ध इति ज्ञायते / इह तन्तुषु पट इत्यादिप्रत्ययाः सम्बन्धनिमित्तका अबाधितेहप्रत्ययत्वात्, इह कुण्डे दधीतिप्रत्ययवत् / [2663 नन्वयं संयोगो भविष्यतीत्यत आह-न चासौ संयोग इति / असौ 'तन्तपटादीनां सम्बन्धो न संयोगो भवति, कुतः ? इत्यत्राह-सम्बन्धिनामयुतसिद्धत्वादिति / संयोगो हि युतसिद्धानामेव भवति / अयं त्वयुतसिद्धानामिति / तथा संयोगोऽन्यतरकर्मज उभयकर्मजः संयोगजो वा स्यादिति / इह तु अन्यतरकर्मादीनां निमित्तानामभावो भावोत्पादककारणसामर्थ्य भावित्वात् / संयोगस्य विभागान्तत्वं विभागविनाशित्वं दश्यते न समवायस्य / संयोगः स्वतन्त्रयोरपि भवति, यथोविस्थितयोरङ्गल्योः / अयं त्वधिकरणाधिकर्तव्ययोरेव भवति, तस्मानायं संयोगः, किन्तु तस्मात् पृथगेव / [पं०] नित्यानि द्रव्याणि आप्यादिपरमाणवो नित्यतद्गुणास्तद्रूपादयश्चेति व्याख्येयम् / पार्थिवास्तु परमाणवः पार्थिवरूपादयश्च पाकजोत्पत्तौ परावर्तनशीला इति अनित्या अतस्तेऽत्र न ग्राह्याः। ततश्च नित्यद्रव्याणि च नित्यतद्गुणाश्चेति द्वन्द्वः / अधिगतस्वरूपभेदानामि[ति] पटस्य अन्यस्वरूपं तन्तूनामन्यस्वरूपम् / परवाक्यं नन्वयं संयोगो भविष्यतीति (कं. 326.4) / इह त्विति (कं. 326.9) तन्तुपटादिसम्बन्धे / भावोत्पादेत्यादि (कं. 324.9) भावोत्पाद: पदार्थोत्पत्तिः। विभागविनाश्यत्वमिति (कं. 326.10) विभागेन [कु०] [266] संयोगो हि युतसिद्धानामिति (कं. 326) व्यतिरेकव्याप्तिप्रदर्शनमेतत् / प्रयोगस्तु - अवयवावयब्यादीनां परस्परसम्बन्धः संयोगो न भवति / अयुतसिद्धसम्बन्धत्वात् / न यदेवं न तदेवम् / यथादधिकुण्डयोरिति / कथमन्यतरकर्मादीनामसंभव इत्यत आह-भावोत्पादकेति (कं. 326) भावित्वादिति (कं. 326) अभिव्यंग्यत्वेनोत्पत्तिविरहादित्यर्थः / अत्रापि पूर्ववद् व्यतिरेकी प्रयोगः द्रष्टव्यः / १निमित्तप्रत्ययाभावात-दे। 2 करणकर्तव्ययोरेव-दे। 3 अवधारित-कं. 1, कं. 2 / 4 तन्तुषु पटादीनां-जे. 3 / 5 भावितत्वात-जे. 3 / 6 विनाश्यत्वं-कं.१,कं.२ /

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748