Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 704
________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 679 न्यायकन्दली यद्येकहेतुत्वादेकत्वम्, भिन्न कारणप्रभवाणां व्यक्तीनामेकत्वं न स्यात् / दृश्यते चाभिन्नस्वभावानामपि कारणभेदो यथा वह्नारनिर्मथनाद्विद्युत आदित्यगभस्तिक्षोभितात् सूर्यकान्तादपि मणेरुत्पत्तिः / एककार्यत्वादेकत्वे च विजातीयानामप्येकत्वापत्तिः, दृष्टा हि वाहदोहनादिक्रिया गवादिव्यक्तीनामिव 'महिष्यादिव्यक्तीनामपि / या च गौर्न दुह्यते न च वाह्यते सा गौर्न स्यात् / अपि च सामान्याभावे कोऽर्थः शब्दसंसर्गविषयः ? न तावत् स्वलक्षणम्, तस्य क्षणिकस्य सर्वतो व्यावृत्तस्य सङ्केतविषयत्वाभावात् / नापि विकल्पः शब्दार्थः, 'तस्यापि क्षणिकत्वादसाधारणत्वाच्च / विकल्पाकारः शब्दार्थ इति चेत् ? किं विकल्पाकारो विकल्पव्यतिरिक्तः ? अव्यतिरिक्तो वा ? यदि भिन्नः, स किं सर्वविकल्पसाधारणः, कि वा प्रतिविकल्पं भिद्यते ? साधारणत्वे तावदेतस्य सामान्यादभेदः, यदि परम् ? तव ज्ञानधर्मोऽम्मस्माकं चार्थधर्म बहिर्मुखतया प्रतीयमानत्वादिति 'न कश्चिद्विशेषः / यदि व्यतिरिक्तोऽयमाकारः प्रतिज्ञानं भिद्यते, अथवा ज्ञानादव्यतिरिक्त एव, उभयथापि न शब्दसंसर्गयोग्यता, ज्ञानवदशक्यसडेतत्वात् / 'विकल्पः पारम्पर्येण तदुत्पत्तिप्रतिबन्धाद् बाह्यात्मतया स्वाकारमारोप्य विकल्पयति, तत्रायं शब्दसंसर्ग इति चेत् ? बाह्यत्वेनारोपितो विकल्पाकार 'विकल्पैकाधीनस्वभावत्वाद्विकल्पे जायमाने जायमान इव, विनश्यति विनश्यन्निव प्रतीयमानः प्रतिविकल्पं भिन्न एवावतिष्ठते / न च भेदानुपातिनी सङ्केतप्रवृत्तिरित्युक्तम् / अथोच्यते-यादशमेको गोविकल्पे बाह्यात्मतया स्वप्रतिभासमारोपयति गोविकल्पान्तरमपि तादृशमेवारोपयति, विकल्पाश्च प्रत्येकं स्वाकारमात्रग्राहिणो न परस्परा[कु०] * आकारे विकल्पाद्भिन्नः सर्वज्ञानसाधारण इति पक्षं दयित्वा अभेदपदो (दे? ) साधारणत्वं सशंकमेवेति हृदि निधायोभयोरसाधारणत्वे दूषणमाह-यदि व्यतिरिक्तोऽयमिति (कं. 318) ज्ञानवदिति (कं. 318) क्षणिकत्वेनेति शेषः / पारम्पर्येण तदुत्पत्तिप्रतिबन्धादिति (कं. ३१८)-बाह्यार्थममुच्छ (?) निर्विकल्प एकभावत्वम्, विकल्पस्य पारम्पर्येण बाह्यादुत्पत्तिस्तावन्मात्रसंबन्धात्स्वाकार...बाह्यतया विकल्पो गोचरयतीति भावः / 1 कारक-जे.१। 2 गवादीनामिब-जे. 1, जे. 3; गवामिव-जे. 3 / 3 महिषीव्यक्तीनामपि-जे. 1 जे. 3 / 4 तस्य-कं. 1, कं. 2 / 5 कश्चिद्विशेष:-कं. 1, क. 2 / 6 विकल्पपारम्पर्येण-जे.१। 7 एकाधीन-कं. 1, क.२। 8 पातिनि-कं. 1, कं.२। 9 विकल्पान्तरमपि-जे. 3 /


Page Navigation
1 ... 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748