Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 706
________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 681 न्यायकन्दली. एकप्रत्यवमर्षस्य हेतुत्वाद्धीरभेदिनी / 'एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता // इति / एतदप्ययुक्तम्, विकल्पानुपपत्तेः / विकल्पाकाराणां भेदाग्रहणादारोपितमैक्यं सामान्यमाचक्षते भिक्षवः / अत्र ब्रूमः / किमाकाराणां भेदाग्रहणमेवाभेदसमारोपः ? आहोस्विवभेदग्रहणमभेदारोपः ? न तावदायः कल्पः, भेद'समारोपस्यापि प्रसङ्गात् / यथा विकल्पाकाराणां भेदो न गृह्यते, तद्वदभेदोऽपि. न गृह्यते / तत्र भेदाग्रहणादभेदारोपवदभेदाग्रहणाद् भेदारोपस्यापि प्रसक्तावभेदोचितव्यवहारप्रवृ'त्ययोगः / अभेदग्रहणमभेदारोप इत्यपि न युक्तम्, आत्मवादे एको ह्यनेकवर्शी तेषां भेदाभेदी प्रत्येति / नैरात्म्यवादे नकोऽनेकार्थद्रष्टा न कश्चिदस्ति, विकल्पाना प्रत्येकं स्वाकारमात्रनियतत्वात् / अस्तु वाऽनेकार्थदर्शी कश्चिदेकस्तथाप्येकं निमित्तमन्तरेण भिन्नज्वाकारेषु नाभेदग्रहणमस्ति / भवद्वा गवाश्वमहिषाद्याकारेष्वपि भवेदविशेषात् / [263] गवाकारेष्वप्यगोव्यावत्तिरेकं निमित्तमस्तीति चेत् ? के पुनरगावो ययावृत्त्या गवाकारेष्वेकत्वमारोप्यते ? ये गावो न भवन्ति तेऽगाव इति चेत् ? गावः के ? ते येऽगावो न भवन्ति ते गाव इति चेत् ? 'गवां स्वरूपे निरूपिते तद्वयावृत्तत्वेनागवां स्वरूपं निरूप्यते, 'अगवां च स्वरूपे निरूपिते तयावृत्त्या गवां स्वरूपनिरूपणमित्येकाप्रतिपत्तावितराप्रतिपत्तेरुभयाप्रतिपत्तिः / यथाह तत्रभवान नन्वध्यवसायमान इत्युक्तं कोऽयमध्यवसाय इत्यत आह-अन्यव्यावृत्तिस्वभावमिति (कं. 319) भावत्वे च प्रभावरूपत्वे व (च) बाधकसंभवादिति शेषः / तदेव बाधकमाह-भावाभावेति (कं. 319) अभावतयापि पारमार्थिकत्वं निराकर्तुमुभयसाधारण्यमुक्तम्, न केवलं सामान्यमेव / अपरमार्थसत्कर्तुः कारकव्यापारमारभ्य विजातीयसंतानोत्पादाद्यदिदमेकत्वम् लौकिकानामनुपपत्तेरित्यर्थः / पूर्वपूर्वविकल्पजनितवासनासंविलीनस्योत्तरोत्तरविकल्पस्योत्पत्तरेकानेकद्रव्याणि [भविष्य ] (यं) तीत्यत आह-'अस्तु तावदिति (कं. 319) / [263] परमतमाशंकते गवाकारेविति (कं. 320) गूढाभिसन्धेः पृच्छति के पुनरिति (कं. 320) अभिसंधिमविदुषनुत्तरं या (ये) गावो न भवती (न्ती)ति (कं. 320) / पुनः पृच्छति गावः क इति (कं. 320) उत्तरं त इति (कं. 320) / अभिसंधिमुद्धाटयति गवाश्वरूपे निरूपिते इति (कं. 320) / / 1 एकधीहेत-जे. 2 / 2 समारोपितस्य-कं. 1, कं. 2 / 3 त्ययोगात-कं. 1, कं.२ / 4 येऽगावो न भवन्तीति चेत्-कं. 1, कं. 2 / 5 गवाश्वस्वरूपे-कं. 1, कं. 2 / 6 अगवां-कं. 1, कं. 2 / 7 अस्तु वेति कं /

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748