Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 691
________________ 666 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् योगिनां च बहिरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनं च, तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थ कर्मादृष्टकारितम् / एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकार'समर्थ तदप्यदृष्टकारितम्, यथा सर्गादावणुकर्म, अग्निवाय्वोरु तिर्यग्गमने, न्यायकन्दली परिकल्प्यते / तच्च मृतशरीरमतिक्रम्य मनसः स्वर्गनरकादिदे'शंप्रतिवहनधर्मकत्वा. दातिवाहिकमित्युच्यते / मरणजन्मनोरन्तराले मनसः कर्म शरीरोपगृहीतस्यैवोत्पद्यते, महाप्रलयानन्तरावस्थाभाविमनःकर्मव्यतिरिक्तत्वे सति मनःकर्मत्वाद् दृश्यमानशरीरवृत्तिमनःकर्मवत् / आगमश्चात्र संवादको दृश्यत इति / तत्संयोगार्थं च कर्मोपसर्पणमिति / तेन स्वर्गे नरके वा प्रत्यग्रजातेन शरीरेण मनःसंयोगार्थ कर्मोपसर्पणमिति / .योगिनां च बहिरुद्रेचितस्य बहिनिःसारितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनं च / तथा 'सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थ 'मनःकर्मादृष्टकारितम् / न केवलमे तावत् सर्वमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकारसमर्थ तदप्यदृष्टकारितम्, यथा सर्गादावणुकर्म, 'अग्निवाय्वोर्यथासंख्यमूर्वतिर्यग्गमने, "महाभूतानां भूगोलकादीनां च प्रक्षोभणं चलनम्, परीक्षाकालेऽ प्रदै ( ?) नियमः सयोग ऐहिकसुखस्यासमवायिकारणम्, तथापि यद्यामुष्मिक(क)शरीरसंयुक्तेन मनसा आत्मनः संयोगोऽसमवायिकारणं स्यात् , तदा आमुष्मिकाबहिरेव प्रसंग इति भावः / आतिवाहिकशरीरसद्भावे सतर्कप्रमाणमाह गमनं त(च)तस्येति (कं. 310), आतिवाहिकमित्युच्यत इति (कं. 310) "अतिक्रम्य वहनेति (कं. 310) चाह 1 अन्यदपि-दे। 2 समथं च भवति-कं. 1, कं. 2 3 देशातिवा-कं. 1, कं. 2 / 4 वोपप-कं. 1, कं. 2 / 5 इति नाभिनिवेष्टव्यम्-जे. 1 / 6 स्वर्गकाले-जे. 1, जे.३। 7 मनसः कर्म-जे. 1, जे. 2, कर्मा-जे. 3 / 8 मेतत्सर्व-जे. 1, जे. 2, जे.३। 9 अग्निवाय्वोरूर्वतिर्यग्गमने-जे. 1, जे.३। 1. भूतानां-जे. 3 / 11 अतिक्रम्येति-कं.२।

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748