Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 670
________________ टिप्पणपञिकाकुसुमोदगमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [245] [एवमपि पञ्चवेत्यवधारणानुपपत्तिः / निष्क्रमणप्रवेशनादिष्वपि वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् / ] 'यद्युत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेद इष्यते, [एवं च निष्क्रमणप्रवेशनादिष्वपि] कार्यभेदात् तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति 'चेत् ? न, उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानवृत्तिव्यावृत्तिप्रसङ्गः। अथ समाने वर्गशः प्रत्ययानवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र 'विशेषे हेतुरस्तीति / न जातिसङ्करप्रसङ्गात् / निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते / कथम् ? द्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टौ, तथा द्वारप्रदेशे प्रविशति निष्कामतीति च / यदा तु प्रतिसीराद्यपनीतं भवति, न्यायकन्दली * (245] पुनश्चोदयति-एवमपीति / यदि प्रतिवर्ग प्रत्यया'नुवृत्तिव्यावृत्तिदर्शनादुत्क्षेपणादिषु सामान्यमभ्युपेयते, तदा निष्क्रमणादिष्वपि प्रतिवर्ग प्रत्ययानवृत्तिव्यावत्तिदर्शनानिष्क्रमणत्वादिकमभ्युपेयम्, ततश्च पञ्चैवेत्यवधारणानुपपत्तिः / अथ निष्क्रमणादिषु कार्यभेदात् प्रत्ययभेदो न जातिभेदात, तदोत्क्षेपणादिष्वपि तथा स्यादित्याहकार्यभेदात् तेष्विति / समाधत्ते नेति / यदि निष्क्रमणत्वादिजातय इष्यन्ते, तदा जातिसङ्करप्रसङ्गः / एकस्यां व्यक्तौ विरुद्धानेकजातिसमवायः प्रसज्यत इत्यर्थः / - कथमिति पृष्टः सन्नाह-द्वयोद्रष्ट्रोरिति / द्वयोष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतः पुरुषस्य यौ द्रष्टारौ तयोरेक स्यां कर्मव्यवतौ निष्क्रमणप्रवेशनप्रत्ययौ | पुनश्चोदयतीति (कं. 295) न्यूनत्वचोचं समाधायाधिक्यं चोग्यतया परस्परपरिहारेण स्थितानां - जातीनामेकत्रसमावेशो जातिसंकर इत्याह एकस्यां व्यक्ताविति (कं. 295 न केवलं निष्क्रमणप्रवेशनयोर्जातिसाङ्कर्यम, किञ्चित्किञ्चित्प्रत्ययानुवृत्तिरपि न(ना)स्तीति प्रदर्शनपर भाष्यं विव्याचष्टे यदाऽनुवृत्तिप्रतीतिरिति (?) तस्माद्गमनमेवेति (क. 295) उत्क्षेपणादिचतुष्टयव्यतिरिक्तं कर्म सर्व गमनमेव, न तु भ्रमणत्वादिना भिद्यत इति भावः / 1 [ ] एतच्चिह्नान्तर्गत: पाठ: दे पुस्तके नास्ति / 2 [ ] एतच्चिह्नान्तर्गतः पाठः दे पुस्तके नास्ति / क्षे-दे। 4 विशेष-कं 1, कं. 2 / 5 नवत्तिदर्शनात-जे.१। 6 अत्र सर्वेष्वपि ताडपत्रीयेष पुस्तकेषु प्रतीकरूपेण सम्पूर्ण मूलभाष्यपाठः दत्तः। 7 'द्वयोर्द्रष्ट्रोः' इति-जे. 1, जे. 2, जे. 3 पुस्तकेषु नास्ति / 8 एकस्यां व्यक्तौ-कं. 1, कं. 2 /

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748