________________
१२० ]
नेमिदूतम्
विरहव्यथितमना-शोकसन्तप्तायाः राजीमत्या इति भावः । अस्मिन् क्षितिभूति एतस्मिन् गिरी। इत्थममुना प्रकारेण मदनदहनोद्दीपनानि कामाग्निमुद्दीपयन्तीति मदनदहनोद्दीपनानि । 'दिक्संसक्तप्रविरसघनव्यस्तसूर्यातपानि' प्रविरसन्तीति - गर्जन्तीति, दिक्षु संसक्ता -- संलग्नाश्च ते प्रविरसाश्च ते घनाश्च तैय॑स्तः सर्वथा निरस्त: सूर्यातपो येषु तानि, दिकसंसक्त० । एतानि दिनानि तानि अहानि । प्रकामं कल्पोपमानि अतिशयेन कल्पेन-युगान्तेन उपमीयन्ते यानि तानि कल्पोपमानि, आसन् बभूवुः ।। ११२ ॥
पदार्थ:-ईश ! -हे नाथ !, त्वया-तुमसे, अस्वीकृतायाःअस्वीकृत होने के कारण, मे-मेरी, विधुरमनस:-विरह में व्यथित, मनवाली, दुःखार्तायाः-शोकसन्तप्ता राजीमती का, अस्मिन्-इस, क्षितिभृति-पर्वत पर, इत्थम् - इस प्रकार से, मदनदहनोद्दीपनानिकामाग्नि को बढ़ाने वाले, दिकसंसक्तप्रविरस घनव्यस्तसूर्यातपानि-दिशाओं में गरजते हए घने मेघों से आच्छन्न सूर्य की किरण से रहित, एतानि-ये, दिनानि-दिन, प्रकामम्-अतिशयरूप से, कल्पोपमानि-एक कल्प ( युग की समाप्ति ) की तरह, आसन्-हो गया है।
अर्थः - हे नाथ ! तुमसे स्वीकृत नहीं होने के कारण वियोग से व्यथित मन वाली शोकसन्तप्ता राजीमती का, इस पर्वत पर, इस प्रकार से कामाग्नि को बढ़ाने वाले दिशाओं में गरजते हुए घने मेघों से आच्छन्न सूर्य की किरण से रहित, ये दिन अतिशयरूप से एक कल्प ( युग की समाप्ति ) की तरह हो गया है।
रात्रौ निद्रां कथमपि चिरात् प्राप्य यावद्भवन्तं,
लब्ध्वा स्वप्ने प्रणयवचनैः किंचिदिच्छामि वक्तुम् । तावत्तस्या भवति दुरितैः प्राककृतमें विरामः,
करस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ११३॥ अन्वयः - रात्री, कथमपि, चिरात्, निद्राम्, प्राप्य, स्वप्ने, भवन्तम्, लब्ध्वा, प्रणयवचनैः, किंचिद्, वक्तुम्, यावत्, इच्छामि, तावत्, प्राकृतः, मे, दुरितैः, तस्याः, विरामः, भवति, क्रूरः, कृतान्तः, तस्मिन्, अपि, नौ, सङ्गमम्, न, सहते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org