Book Title: Nandisutram Avchuri Author(s): Devvachak, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ नन्दिसूत्रम्। अवघूरीमः मलङ्कृतम्। नाथशन्देन च योगक्षेमकृदभिधीयते, 'योगक्षेमकृत् नाथ' इति, तथा ' जगद्वन्धुः' इह जगच्छन्देन सकलपाणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन सुखस्थापकत्वात्-बन्धुरिव बन्धुः जगद्वन्धुः, तथा 'जयति जगत्पितामहः' इति, इह जगच्छब्देन सकलसत्त्वपरिग्रहः, ततश्च जगतां सकलसत्त्वानां नरकादिकुगतिविनिपाताऽपायरक्षणात् पितेव पिता-सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्मः । स हि दुर्गती प्रपततो जंतून रक्षति, शुभे च निःश्रेयसादौ स्थाने स्थापयति । तथा चोक्तम्-निरुक्तशास्त्रवेदिभिः-" दुर्गतिप्रसृतान जन्तून , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥” ततः सकलस्थापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान , अर्थतस्तेन प्रणीतत्वात् , ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं तथाधिकाराददुष्टम् ।। उक्तं च-" सज्झायज्झाणतओसहे ऊबएसु थुइपयाणेसु । संतगुणकित्तणासु य न होति पुणरुत्तदोसाओ ॥१॥ अनेनापि परार्थ| संपदमाह-'भगवान् इति' भगः-समग्रैश्वर्यादिलक्षणः, आह च-ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। धर्मस्यार्थप्रयत्नस्य ! पण्णां भग इतीरितः ॥१॥” भगोऽस्यास्तीति भगवान् ॥ १॥ जयह सुयाणं पभवो तित्थयराणं अपच्छिमो जयइ। जयइ गुरूलोगाणं जयइ महप्पा महावीरो ॥२॥ जयतीति पूर्ववत, श्रुतानां-स्वदर्शनपरदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणि शास्त्राण्यस्मादिति प्रभवः-प्रथमं उत्पत्तिकारणम्, तीर्थकराणामपश्चिमो जयति, जन्मजरामरणसलिलसुभृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुःखग्राह %AKAPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 240