Book Title: Nandisutram Avchuri
Author(s): Devvachak,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
०
.
मई धिईवला इत्यादि,संघः समुद् इव संघसमुद्रः तस्य, भद्रं भवतु इति क्रियाशेषः, किंविशिष्टस्य सत इत्याह 'धृतिवेलापरिगतस्य' अवचूरीसधृतिः मलोत्तरगुगविषयः, प्रतिदिवसं उत्सहमाल-आत्मपरिणामविशेषः, स एव वेला-जलवृद्धिलक्षणा तया परिगतस्य, तथा मलकृतम्। स्वाध्याययोग एवं कर्मविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य परीषहउपसर्गसंभवेऽपि निःप्रकंपस्य 'भगवतः' समोश्चर्यरूपयशोधर्मप्रयत्नश्रीसंभारसमन्वितस्य 'रुद्रम्य' विस्तीर्णस्य ॥११॥ भयोऽपि संघस्य एच सदा स्थायितया मेरुरूपकेण स्तवमाह
सम्मसणवरवहरतरूढगाढवगाढपेढस्म । धम्मवररयणमंडिअचामीयरमेहलागस्स ॥१२॥ सम्मदंसण इत्यादि गाथाषट्केन संबंधः, सम्यक्-अविपरीतं दर्शन-तत्त्वश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वात् वरवजं इव सम्यग्दर्शनवरवज्र,तदेव दृढं-निःप्रकंप,रूद-चिरप्ररूढे,गाढं-निबिडं,अवगाढं-निमग्न, पीठं-प्रथमभूमिका यस्य स तथा । है| इह मंदरगिरिपक्षे वनमयं पीठं, संघमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं शङ्कादिसुषिररहिततया परतीर्थिकवासनाजलेनांतः| प्रदेशाभावतः चालयितुमशक्यं रूढं प्रतिसमयं विशुद्धथमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्तनात् , गाढं तीव्रतत्त्वविषयरुच्यात्मकस्वान्, अवगाढं जीवादिषु पदार्थेषु सम्यगपयोधरूपतया प्रविष्ट-तं बन्दे । तथा दुर्गती प्रपतं आत्मानं धारयति इति धर्मः स एच वररत्नमण्डिता चामीकरमेखला यस्य स धर्मपररत्नमण्डितचामीकरमेखलाकः 'शेषाति कः प्रत्ययः (७-३-१७५) तस्य । धर्मो द्विधा !! मूलगुणरूप उत्तरगुणरूपश्च, नत्र उत्सरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपवत्मिचामीकरमेखला विशिष्ट
॥२०॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 240