Book Title: Nandisutram Avchuri Author(s): Devvachak, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ नन्दिसूत्रम्। ॥ ४ ॥ महामोहावर्तभीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टेष्टसंयोगवियोगवीचि निचयसंकुलमुच्चैस्तर मनोरथसहस्रवेलाकलितं संसारसागरं तरंति येन तत्तीर्थम् । तच्च सकलजीवादिपदार्थसार्थरूपकमत्यन्तानवद्यं शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तर्गविबुद्धधर्म्मसंपत्समन्वितं महापुरुषाश्रयमविसंवादिप्रवचनम्, तत्करणशीलास्तीर्थकराः तेषां तीर्थकराणां, अस्मिन् भारते वर्षे, अधिकृतायासर्वियां न विद्यते पश्चिमोऽस्मादित्यपश्चिमः सर्वान्तिमः, पश्चिम इति । 'जयति गुरुर्लोकानां ' इति लोकानां - सवानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः । तथा 'जयति महात्मा महावीरो' महान्- अतितरशक्त्युपेत आत्मास्वभावो यस्य स महात्मा, 'सूर वीर विक्रांतौ ' वीरयति स्म इति वीरो-विक्रांतः, महान् कषायोपसर्गपरीषहेन्द्रियादिशत्रुगणजयादतिशायी विक्रांतः महावीरः, अथवा 'ईर गतिप्रेरणयोः ' विशेषेण ईरयति -गमयति स्फेटयति कर्म, प्रापयति वा शिवमिति वीरः, जयतीति पूर्ववत् ॥ २॥ भद्दं सवजगुजोयगस्स भद्दं जिणस्स वीरस्स । भद्दं सुरासुरनमंसियस्स भदं धुयरयस्स ॥ ३ ॥ 'भद्रं' कल्याणं भवतु, 'सर्वस्य जगदुद्योतकस्य' सर्व-समस्तं जगत्-लोकालोकात्मकम्, उद्योतयति - प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः । तस्य 'भेद्रायुष्यक्षेमसुखहितार्थहितैराशिषि' इति त्रिकल्पेन चतुर्थीविधानेऽपि षष्ठयपि भवति । यथा आयुष्यं देवदत्ताय, आयुष्यं देवदत्तस्य, तथा 'भद्रं जिनस्य वीरस्य' महावीरस्य, जयति रागादिशत्रुगणमिति जिनः, औणादिको नक् १ हितसुखाभ्याम् (हैम० २।२।६५ ) तद्भद्वायुष्य क्षेमार्थार्थेनाशिषि ( २।२ । ६६ ) इतिसूत्रद्वयोक्तार्थसङ्ग्रहेणात्रैवमुक्तम् । अवचूरीसमलङ्कृतम्। ॥ ४ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 240