Book Title: Nalayanam Author(s): Manikyadevsuri Publisher: ZZZ Unknown View full book textPage 7
________________ II II III-IIIIIII RISHI [451 नलप्रशंसा यत् पुण्यं जाहवीस्नानाद् यत् पुण्यं गुरुपूजनात् / यत् पुण्य प्राणिनां त्राणात् तत् पुण्यं नलकीर्तनात् // 20 // प्र० स्कं० 1 स०। नलकीर्तने नलनामग्रहणे च फलम् .. यथा श्रेयस्करं दानं यथा पापहरं तपः / यथा शौचकरं शीलं तथैव नलकीर्तनम् // 22 // प्र० स्कं० 1 स० / एकतः शकुनाः सर्वे सुप्रशान्ताः फलप्रदाः / कार्यकाले नलस्यैकं नामग्रहणमन्यतः // 23 // प्र० स्कं० 1 स०।। भरतश्चार्जुनश्चैव वैण्यश्च पृथिवीपतिः / नलश्च नैषधो राजा यात्रायां सिद्धये स्मृताः // 24 // प्र० स्कं० 1 स० / निर्मलं धीरललितं विशालं विश्वविश्रुतम् / पुण्यश्लोकस्य राजर्षेः कीर्तनं कलिनाशनम् // 26 // प्र० स्कं० 1 स० / अन्यस्मिन् ग्रन्थे च नलादीनां स्तुतौ फलप्रदर्शनम् कर्कोटकस्य नागस्य, दमयन्त्या नलस्य च / ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् // 1 // ___ ग्रन्थेऽस्मिन् शब्दानुप्रासः, अन्ये चालङ्काराःकलाकेलिकल्लोलिनीलब्धपारः कुले वीरसेनस्य धर्मावतारः। जयश्रीवधूकण्ठश्रृङ्गारहारः सदा नैषध ! त्वं सदाचारसारः ॥६॥स्कं० 3 स०१। कलुषः कुटिलः कुण्ठः कितवः क्रोधनः कुधीः कृतघ्नः कृपणः क्रूरः कठोरः कोऽपि नाभवत् / / 41 // प्र० स्कं० 1. स० / अपारिजातस्य सपारिजातं निरञ्जनस्यापि घनाङ्गनौघम् / तथापि राजन् ! न तवापि हर्ष वनं विधत्तामवनप्रियस्य // 11 // स्कं०१ स०७। SEII III + IIIIIIIIIIIIIIlePage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 398