Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 218
________________ १६९ विलास.७] अलङ्कारप्रकरणम् । इत्यत्र ससम्भ्रमवनप्रवेशादिसाधारणधर्मस्य सादृश्यस्य दर्शनेन रिपूणां स्मृतिः, तया च या स्वकीयस्य विजयसङ्गामस्मृतिः, तस्यां सदृशवस्तुदर्शनजन्यायां स्मृत्यात्मकभावरूपायामलङ्कारत्वाभावेऽपि न क्षतिः । इति भेदाभेदसाधारणसाधर्म्यनिबन्धना दर्शिताः। सम्प्रत्यारोपगर्भालङ्कारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकालङ्कारो निरूप्यते। विषयानिहवेनान्यस्यारोपे रूपकं मतम् । अन्यस्याप्रकृतस्य प्रकृते विषयानपढत्या यदारोपणं तद्रूपकम् । अत्राभेदस्य प्राधान्यमात्रम् । वस्तुतोऽस्त्येव भेदः। तेना[न]न्वयव्यावृत्तिः । अत्र विषयानिहवेनारोप इत्यनेनातिरोहितस्य विषयस्यारोप्यमाणोपरक्तत्वं विवक्षितम् । तथा च विषयातिरोधानांशेन सन्देहभ्रान्तिमदपहवानां व्यावृत्तिः । सन्देहालङ्कारे विषयस्य सन्दिह्यमानतया विषयतिरोधानम् । भ्रान्तिमदलङ्कारे भ्रान्त्याऽपहवे अपहवेन विषयतिरोधानम् । उपरक्तत्वमित्यनेन परिणामालङ्कारव्यवच्छेदः । अत्रारोप्यमाणस्य प्रकृतोपयोगितया विषयपरिणामरूपत्वेन प्रकृतोपरञ्जकत्वात् । उत्प्रेक्षादेरध्यवसायमूलत्वात् अस्य चारोपप्राणत्वात् सर्वेभ्यः सादृश्यमूलालङ्कारेभ्यो भिन्नमेव रूपकम् । न च निरुक्तलक्षणस्य । ये नञ्जभूपतिमणे तव कीर्तिपुञ्जा श्वक्षुःप्रियङ्कररुचः परितश्चरन्ति । एते त एव नवनीलसरोजलीला विस्तारिणः स्फुटसुधाकरकान्तिसारः (राः ?)॥ इति कीर्तिपुञ्जेषु सुधाकरकान्तिसाराभेदापादिन्यां निदर्शनायामतिव्यासिरिति वाच्यम् । निदर्शनायां विषयविषयिणोर्बिम्बप्रतिविम्बभावापन्नवस्तुवैशिष्टयनयत्यसत्वेन तद्राहित्यस्य लक्षणे विवक्षितत्वात् । न चोक्तवैशिष्टयराहित्यमेव विशेषणमास्ताम्, न तु नैयत्यमपि तत्र निवेशनीयम्, तावतैव क्वचिदपि बिम्बप्रतिबिम्बभावशून्यरूपके केवललक्षणसद्भावानिदर्शनायां सर्वत्र बिम्बप्रतिबिम्बभावसत्वान्न तद्वैशिष्ट्यराहित्यमिति नातिप्रसङ्ग इति वाच्यम् । सर्वत्र रूपके बिम्बप्रतिबिम्बभावेऽपि काचित्के । आलोलभमरलांछिअमंबुअमाआससरिसमझ्झाए । वअणं विळोळतारं सादिअ णेदेइ गंजभूचंदो ॥ २२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330