________________
१६९
विलास.७]
अलङ्कारप्रकरणम् । इत्यत्र ससम्भ्रमवनप्रवेशादिसाधारणधर्मस्य सादृश्यस्य दर्शनेन रिपूणां स्मृतिः, तया च या स्वकीयस्य विजयसङ्गामस्मृतिः, तस्यां सदृशवस्तुदर्शनजन्यायां स्मृत्यात्मकभावरूपायामलङ्कारत्वाभावेऽपि न क्षतिः । इति भेदाभेदसाधारणसाधर्म्यनिबन्धना दर्शिताः।
सम्प्रत्यारोपगर्भालङ्कारप्रस्तावः । तत्रापि प्राधान्यात् प्रथमं रूपकालङ्कारो निरूप्यते।
विषयानिहवेनान्यस्यारोपे रूपकं मतम् । अन्यस्याप्रकृतस्य प्रकृते विषयानपढत्या यदारोपणं तद्रूपकम् । अत्राभेदस्य प्राधान्यमात्रम् । वस्तुतोऽस्त्येव भेदः। तेना[न]न्वयव्यावृत्तिः । अत्र विषयानिहवेनारोप इत्यनेनातिरोहितस्य विषयस्यारोप्यमाणोपरक्तत्वं विवक्षितम् । तथा च विषयातिरोधानांशेन सन्देहभ्रान्तिमदपहवानां व्यावृत्तिः । सन्देहालङ्कारे विषयस्य सन्दिह्यमानतया विषयतिरोधानम् । भ्रान्तिमदलङ्कारे भ्रान्त्याऽपहवे अपहवेन विषयतिरोधानम् । उपरक्तत्वमित्यनेन परिणामालङ्कारव्यवच्छेदः । अत्रारोप्यमाणस्य प्रकृतोपयोगितया विषयपरिणामरूपत्वेन प्रकृतोपरञ्जकत्वात् । उत्प्रेक्षादेरध्यवसायमूलत्वात् अस्य चारोपप्राणत्वात् सर्वेभ्यः सादृश्यमूलालङ्कारेभ्यो भिन्नमेव रूपकम् । न च निरुक्तलक्षणस्य ।
ये नञ्जभूपतिमणे तव कीर्तिपुञ्जा
श्वक्षुःप्रियङ्कररुचः परितश्चरन्ति । एते त एव नवनीलसरोजलीला
विस्तारिणः स्फुटसुधाकरकान्तिसारः (राः ?)॥ इति कीर्तिपुञ्जेषु सुधाकरकान्तिसाराभेदापादिन्यां निदर्शनायामतिव्यासिरिति वाच्यम् । निदर्शनायां विषयविषयिणोर्बिम्बप्रतिविम्बभावापन्नवस्तुवैशिष्टयनयत्यसत्वेन तद्राहित्यस्य लक्षणे विवक्षितत्वात् । न चोक्तवैशिष्टयराहित्यमेव विशेषणमास्ताम्, न तु नैयत्यमपि तत्र निवेशनीयम्, तावतैव क्वचिदपि बिम्बप्रतिबिम्बभावशून्यरूपके केवललक्षणसद्भावानिदर्शनायां सर्वत्र बिम्बप्रतिबिम्बभावसत्वान्न तद्वैशिष्ट्यराहित्यमिति नातिप्रसङ्ग इति वाच्यम् । सर्वत्र रूपके बिम्बप्रतिबिम्बभावेऽपि काचित्के ।
आलोलभमरलांछिअमंबुअमाआससरिसमझ्झाए । वअणं विळोळतारं सादिअ णेदेइ गंजभूचंदो ॥
२२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com