________________
१७०
नजराजयशोभूषणम् ।
[विलास. ७ इति बिम्बप्रतिबिम्बभावरूपके लक्षणस्याव्यास्यापत्तेः । न च बिम्बप्रतिबिम्बभावापन्नस्य लक्ष्यतानालिङ्गितत्वमेवेति वाच्यम् ।
"बिम्बावशिष्टे निर्दिष्टे विषये यद्यनिहते ।
उपरञ्जकतामेति विषयी रूपकं तदा ॥ [इति] बिम्बप्रतिबिम्बभावस्थलेऽपि रूपकालङ्कारस्वीकारात् । नैयत्यपददाने तु तादृशस्थले काचित्के बिम्बवैशिष्ट्यसत्त्वेऽपि सर्वत्र नियतत्वेन तदभावान्नाव्याप्तिशङ्का । तत्तावत्रिविधम्-सावयवम् । निरवयवम् । परम्परितं चेति । सावयवं च द्विविधम् समस्तवस्तुविषयमेकदेशवर्ति चेति । निरवयमपि द्विविधम्केवलम् , मालारूपकश्चेति । परम्परितस्यापि श्लिष्टाश्लिष्टनिवन्धनत्वेन द्वैविध्ये तयोरपि प्रत्येकं केवलमालारूपतया चातुर्विध्यम् । तदेवमष्टविधो रूपकालङ्कारः। अवयावयविसाकल्यवृत्ति सावयवम् । तत्र समस्तवस्तुविषयकं यथा
नाक्ष्मापः कल्पभूजस्तदीयो बाहुः शाखा तस्य तदखङ्गयष्टिः ।
तत्संलग्ना वल्लिका तत्प्ररूढा कीर्तिस्फूर्तिस्तत्प्रसूनोद्गमश्रीः ॥ अत्र नञ्जराजस्य कल्पभूजत्वं निरूप्य तदुचितावयवनिरूपणात् समस्तवस्तुविषयता । 'यदाऽऽरोप्यमाणमनेकावयवावयविभावेन स्थितं श्रुत्यैव स्थाप्यते तदा समस्तवस्तु[त्व]'मित्युक्तेः । एकदेशवर्ति यथा
जगतामभितापहरैः कीर्तिज्योत्लारसैर्दिशः स्लपयन् ।
वीरजनाधिपजलधेर्जातो ननक्षमापतिर्जयति ॥ अत्र कीर्त्यादिषु ज्योत्लात्वारोपश्रुत्या ननक्षमापतौ चन्द्रत्वमर्थाचोपनीयत इत्येकदेशवर्त्तित्वम् । 'यदा तु किश्चिच्छृत्या किश्चिाच्चोपनीयते तदेकदेशवर्ती'त्युक्तेः। ___यत्रावयवनिरूपणमात्रेण कविसंरम्भविश्रान्तिः तन्निवयवम् । तत्र केवलं यथा
नञ्जक्ष्मापभटा विशङ्कट भवत्कोधानलप्रस्फुरत्
कालीकेसरकण्ठकन्दररवादप्यूर्जितैर्गर्जितैः । (छा ) आलोलभ्रमरलाञ्छित ( मम्बुज) माकाशसदृशमध्यायाः। वदनं विलोलतारं आस्वाद्य नन्दति
ननभूचन्द्रः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com