SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ विलास. ७] अलङ्कारप्रकरणम् । क्रूरान् कानपि कल्पयन्ति नितरामुद्यजगत्सम्भ्रमान् प्रत्यर्थिक्षितिपव्रजेषु जनितस्वान्तभ्रमान विभ्रमान् ।। अत्र क्रोधस्यानलत्वेन कण्ठस्य कन्दरत्वेन निरूपणं नावयवावयविभावापन्नम् । मालारूपेण यथाविस्रम्भभूमिर्विनयस्य वासः साम्राज्यलक्ष्म्याः पुनरुक्तिरिन्दोः । क्षात्रस्य धर्मस्य शरीरबन्धोः (न्धुः?) विराजते वीरनरेन्द्रसूनुः ॥ इदं निरवयवमालारूपकम् । एकस्यैवानेकधा रूपणाद्रूपकहेतुकं रूपकं परम्परितम् । अत्र श्लिष्टशब्दनिबन्धनं परम्परितं यथा आशासु नञ्जक्षितिपालमौलेर्यशःशरत्कान्तिभिरावृतासु । अतीव नूनं भुवनं समग्रं प्रसादमन्यादृशमाददाति ॥ अत्र यशसः शरत्कालत्वेन निरूपणं समग्रभुवनस्य सलिलत्वेन निरूपणे हेतुत्वाच्छुिष्टशब्दनिबन्धनपरम्परितम् । एकदा रूपणात्केवलत्वञ्च । तदेव माला यथा अश्रान्तदानोल्लसने गजेन्द्रः पुष्यत्कलासेवनपूर्णचन्द्रः । दुःशासनत्रासनभीमसेनो विभाति ननक्षितिपालवीरः॥ अत्र नञ्जक्षितिपाले गजेन्द्रत्वपूर्णचन्द्रत्वभीमसेनत्वनिरूपणं वितरणसलिलप्रवर्द्धमानविद्यादुष्टेषु मदसलिलत्वचान्द्रमसांशत्वदुर्योधनसोदरत्वरूपणहेतुकम्, तेषां श्लिष्टपदैर्ग्रहणात् श्लिष्टनिबन्धनत्वम् । मालारूपेण ग्रहणान्मालारूपत्वम् । अश्लिष्टकेवलपरम्परितं यथा नाराज भवत्खड्गशक्रोपलशलालिका । कबलीकुरुते वैरिनरपालतृणव्रजम् ॥ अत्र वैरिनरपालेषु तृणत्वरूपणं खड़े शक्रोपलशलालिकात्वरूपणहेतुकम् । इदमेव मालारूपेणानुपादानादश्लिष्टपदस्वीकारादश्लिष्टपदनिवन्धनं केवलं परम्परितम् । तदेव माला यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy