SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १७२ नजराजयशोभूषणम् । [विलास. ७ रविः सुहृन्मानससारसानां चन्द्रो वधूटीनयनोत्पलानाम् । वह्निर्दिषज्जीर्णदलबजानां नञ्जक्षितीन्द्रो नितरां विभाति । अत्र नञ्जक्षितीन्द्रे रवित्वचन्द्रत्ववह्नित्वरूपणं सुहृन्मानसवधूटीनयनद्विषत्सु सारसत्वोत्पलत्वजीर्णदलबजत्वरूपणहेतुकम् । इदमेव मालारूपेणाश्लिष्टपदैरुपादानादश्लिष्ट निबन्धनमालापरम्परितम्। इदं वैधयेणपि सम्भवति। [ यथा ] चाश्चल्यचण्डातपवारिवाहान् दृप्यत्सरोजाकरपूर्णचन्द्रान् । ननक्षितीन्द्रस्य यशोविलासान् गावन्ति गन्धर्वगजेन्द्रयानां ॥ एवमष्टविधस्यापि वाक्यसमासगतत्वेन षडधिकदशभेदाः सम्भवन्ति । आरोग्यमूर्त्या विषयः परिणामं भजेद्यदि । प्रकृतार्थोपयोगाय परिणामः स तु द्विधा ॥ यत्र विषयः प्रस्तुतकार्योपयोगायारोप्याकारेण परिणमति तत्र परिणामालङ्कारः । न चायं रूपकेऽन्तर्भवति । तत्रारोप्यस्य प्रकृतोपरञ्जकत्वमात्र विश्रान्तेः । इदमुदितं भवति । यत्रारोप्यमाणस्य प्रकृतोपरञ्जकत्वमात्रं तद्रूपकम् । यत्र प्रकृतोपकार्योपयोगायारोप्यात्मना विषयस्य परिणतिस्तत्र परिणाम इति । न च समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वेन वाच्यत्वम् । अयं सामानाधिकरण्यवैयधिकरण्याभ्यां द्विविधो भवति । तत्र प्रथमो यथा नजेन्द्रदुन्दुभिध्वाननवनीरदनिस्वनाः । दुष्टसन्तापदावाग्निं शमयन्ति समन्ततः ॥ अत्रैव ध्वानरित्युक्तेद्वितीयम् । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम इति वा। यथा पश्यन्ति राजरथ्यायां समारूढतुरङ्गमम् । नञ्जेन्द्रं सुदृशः लिग्धैः कटाक्षोत्पलदामभिः॥ . अत्रोत्पलदानां कटाक्षत्वेन । परिणतिदर्शनक्रियोपयोगिनी । इदं समानाधिकरणम् । वैयधिकरण्येन यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy