________________
विलास. ७] अलङ्कारप्रकरणम् ।
१७३ मुखश्रियं चन्द्रमयूखलक्ष्म्या निर्माय नमक्षितिपालमौलेः।
कान्ताजनानां नयनोत्पलेषु विकासमम्भोजभवस्तनोति ॥ अत्रोत्पलविकासोपादानोपयोगित्वेन चन्द्रमयूखलक्ष्म्या मुखश्रीरूपेण परिणामः । विभक्तिभेदायधिकरण्यं च ।
'विषयो विषयी यत्र सादृश्यात्कविसम्मतातू । सन्देहगोचरौ स्यातां सन्देहालतिश्च सा॥'
शुद्धा निश्चयगर्भा सा निश्चयान्तेति च त्रिधा। कविसम्मतसादृश्यादियनेन स्थाणुर्वा पुरुषो वेति सन्देहव्यावृत्तिः। तत्र हि साधारणधर्मावबोधसत्धीचीनेन विवेचकधर्माग्रहणेन स्वारसिकः संशयः। किन्तु कविः स्वप्रतिभातिशयेन वर्णयितुं सादृश्यदर्शनेन सन्देहमुपनिबध्नाति । स नानवबोधनिमित्तकः । तत्राद्या यथा
शरीरवान् पश्चशरो नु साक्षात् मूर्त्तनु भाग्यं धरणीरमण्याः ।
क्षात्रो नु धर्मस्तनुमानिति त्वां नजेन्द्र जानाति जगत्रयीयम् ॥ अत्र सन्देहमानपर्यवसानाच्छुद्धत्वम् । निश्चयगर्भा यथा
पद्मं चेन्निशि नोन्निद्रं चन्द्रश्चेन्न दिवा स्फुटः ।
इति नञ्जमहीपाल त्वन्मुखं तय॑ते जनैः ॥ अत्र साधारणधर्मातिरिक्तविशेषणधर्मोल्लेखान्निश्चयगर्भवम् । निश्चयान्ता सा यथा
काश्मीराः किं किं नु कङ्केलिमाला निर्णिद्राणाः शोणपद्मस्रजो वा।
ज्ञातं ज्ञातं वीरनञ्जक्षितीन्दोवल्गन्त्येते बाहुजाताः प्रतापाः॥ अत्र संशयानन्तरं निश्चयकथनान्निश्चयान्तः । सन्देहालकतिः।
कविसम्मतसादृश्याविषये पिहितात्मनि ।
आरोप्यगोचरा धीश्चेत् स्याद्रान्तिमदलङ्कतिः ॥ अत्रातस्मिंस्तद्हे भ्रान्तिः । तदान भ्रान्तिमान् । यथा
नजेन्द्र भवतः कीर्ति जानन् जहुतनद्भवाम् ।
शङ्कते शङ्करो मौलिं करेण मुहुरामृशन् ॥ अत्र कीत्तौ धावल्यरूपसादृश्यदर्शनेन गङ्गात्वभ्रान्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com