SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७४ नजराजयशोभूषणम् । [विलास.७ अत्र कविसम्मतसादृश्यादित्यनेन चाकचाक्यादिसाम्याज्जायमानरजता. दिभ्रान्तिव्यावृत्तिः। आरोग्यविषयस्यात्र भ्रान्तिगम्यत्वादेवारोपमूलसर्वालङ्कारवैलक्षण्यम् । विरोधाभावाच न सन्देहेऽन्तर्भावः । कविसम्मतसादृश्यमूलत्वेऽप्यारोप्यस्य तत्रोल्लेखात् न स्मरणान्तर्भावः । निषिद्धय प्रकृतं यत्राप्रकृतारोपणं भवेत् । तत्रापहृत्यलङ्कारः स त्रिधा परिकीर्तितः ॥ निषिध्यारोपः, आरोग्य निषेधः,छलादिशब्दप्रयोगश्चेति । क्रमेण यथानैषा नक्षत्रपङ्किनभसि विजयते किन्तु नजेन्द्रबाहा जाग्रत्खड्गाग्रकृत्तप्रतिभटवरणारम्भसंरम्भभाजाम् । रम्भादिस्वर्वधूनांसरभसचरणाम्भोजविन्यासलीला वेलाव्यालोलवेणीगलितकतिपयोत्फुल्लमल्लीविराजिः ॥ अत्र नक्षत्रपतौ तत्त्वं निषिद्धय मल्लीविराजित्वारोपः । क्रुध्यत्कालकरालवक्रकुहरो नायं तु चक्रीकृत श्वापस्तचलिताः स्फुलिङ्गनिकराः क्रूरा न चामीशराः । रुद्रो नाविभुच्छलेन पुरतो भातीत्यरिक्ष्माभृत स्त्वां राजन् युधि तर्कयन्ति धनुषा वर्षन्तमुग्रानिषून् ॥ अत्र पूर्वार्धे आरोप्य निषेधः । उत्तरार्धे छलादिशब्दप्रयोगः । अर्थयोगरुचिश्लेषै रुल्लेखनमनेकधा । ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ अर्थयोगरुचिभ्यां यथा नानृपतेः प्रभावं कुडममिति जानते सुदृशः । गैरिकमिति शबरजनाः शूराः शौर्यश्रियोऽङ्गराग इति ॥ अत्रानेकधोल्लिख्यत इत्यनेन भ्रान्तिमयावृत्तिः । भ्रान्तिमत्यनेकपोल्लेखाभावात् । अनेकधोल्लेखनश्च गृहीतृभेदेन । तेनातिशयोक्त्यपोहः । तत्र गृहीतृभेदाभावात् । न च प्रकृतेऽप्रकृतारोपरूपकेऽन्तर्भावः । तस्य प्रकृतोपरञ्जकत्वमात्रेणोत्थानात् । वस्तुनस्ताद्रूप्येण हि पुनरस्य प्रवृत्तिः । श्लेषेणोल्लेखो यथा वैरिगोत्रेषु भिदुरो विद्यासु चतुराननः । श्रीमत्त्वे राजराजोऽयं नजभूपो विराजते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy