SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ विलास.७] अलङ्कारप्रकरणम्। अन्यत्वाध्यवसायो यः प्रकृतस्य गुणादिना। उत्प्रेक्षा कथिता सा स्याद्व्यादिभ्यश्चतुर्विधा ॥ प्रकृतस्य गुणादिवशादप्रकृतत्वेनाध्यवसाय उत्प्रेक्षेत्यर्थः । सम्भावनमध्यवसायस्तर्क ऊह उत्प्रेक्षेति पर्यायः । गुणादीत्यादिशब्देन क्रिया विवक्षिता । तथा चायमध्यवसायो जातिगुणक्रियाद्रव्यगोचरत्वेन चतुर्था भवन् त(ता?)मपि चतुर्धा व्यवस्थापयति । एवं च गुणक्रिययोरुत्प्रेक्षागोचरत्वेन गुणत्वेन च देधाऽप्यनुप्रवेशः सम्भवति । ते[षां] च प्रत्येकं भावाभावाभिमानेन दैविध्ये अष्टविधा जायन्ते । उक्तं हि 'लोकातिक्रान्तविषया भावाभावाभिमानतः। सम्भावना स्यादुत्प्रेक्षा वाच्येवादिभिरिष्यते ॥" इति । ते चा (ताश्चा?) ध्यवसायस्य गुणक्रियानिमित्तद्वैराश्ये प्रत्येक द्विविधा भूत्वा षडधिकदश सम्पद्यन्ते । निमित्तस्य चोपादानानुपादानाभ्यां दैविध्ये द्वात्रिंशद्भवन्ति । हेतुस्वरूपफलोत्प्रेक्षणैः पुनरेषां त्रैविध्येषण्णवतिः अमी च वाच्योत्प्रेक्षाभेदाः । तद्वाचकास्तु 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ इति परिगणिताः । एतच्छब्दाप्रयोगे सति गम्या । अध्यवसायमूलत्वाविशेषादुत्प्रेक्षातिशयोक्त्योः कथं भेद इति चेत् सत्यम् । विषयविषयिणोरन्यतरनिगरणेऽभिन्नत्वेन प्रतिभानमध्यवसाय:, भेदतिरोधानेनाभेदप्रतिपत्तिरध्यवसायः स द्विविधः साध्यः सिद्धश्चेति । यत्र प्रकृतस्याप्रकृतधर्मसम्बन्धात्तद्ध्यवसायसाधनं तत्रोत्प्रेक्षा । तदुक्तम्'अप्रकृतत्वेना(अप्रकृता?)ध्यवसायो गुणादिसम्बन्धतः साध्यः । प्रकृतस्य यदा कथितो(ता?) [सैवो ]त्प्रेक्षा तदा तदः ॥' [इति ] यत्र पुनर्गुणसम्बन्धानास्थाय प्रौढोक्तिमात्रविषयिणो विषयगतत्वेनारोपणे भिन्नस्यापि विषयनिगरणेन प्रवृत्तत्वादभेदप्रतीतेरध्यवसायः सिद्धस्तत्रातिशयोक्तिरिति विवेकः । तत्र चमत्कारशालिनः कियन्तो भेदा उदाहियन्ते । तत्र उपात्तगुणनिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy