________________
नञ्जराजयशोभूषणम् ।
[ विलास. ७
स्वस्थेभ्य एवाभिमतं दिशन्तं कल्पद्रुमालोक्य मुहुर्ह सन्त्याः । नञ्जप्रभो तावकदानलक्ष्म्याः स्मितप्रभावाद्विमलोऽयमिन्दुः ॥ अत्र स्वच्छतरस्वरूपगुणनिमित्तेनेन्दौ स्मितप्रभाध्यवसायः । अत्र प्रभाशब्दो जातिवचनः । दानलक्ष्मीकर्तृकस्मितप्रभायाः कविप्रौढोक्तिसिद्धत्वेनालोकसिद्धान्नोपमाशङ्का । अत्रैव श्लोके नासाग्रमुक्तासुषुमा किमिन्दुरिति तुरीयपादरचनायां निमित्तत्वेन गुणक्रिययोरनुपादानादनुपात्तगुणक्रियानिमित्तकजातिभावस्वरूपोत्प्रेक्षाया इदमेवोदाहरणम् । अत्र दानलक्ष्म्या हसन्त्या इति विशेषणं स्वरूपकथनमात्रपरम् । उपात्तक्रियानिमित्तकजातिभावस्वरूपोत्प्रेक्षा यथा -
नञ्जन्दोः समराङ्गणे समुदितैः सञ्छादितो रेणुभिर्मार्ताण्डोऽयमिति प्रतीपनिवहैर्निर्भिद्यमानान्तरे । बिम्बे पूर्णसुधाकरस्य तरुणं यल्लाञ्छनं दृश्यते तन्मन्ये जठरव्रणं शमयितुं लिप्तं नवीनाञ्जनम् ॥ अत्र लाञ्छनेऽञ्जनत्वसम्पादनं निर्भेक्रियानिमित्तमिति उपात्तक्रियानिमित्तजाति भावस्वरूपोत्प्रेक्षेयम् ।
१७६
[ भाव ] फलोत्प्रेक्षा जाति[ भाव ] हेतुत्प्रेक्षा यथा-
प्रकल्प्य जिष्णुत्वकृते किमुद्यत् प्रत्यर्थिभूभृद्गुणपक्षभेदम् । मित्रत्वतो नञ्जनृपस्य खड्गः प्रायो विधत्ते कमलाभिवृद्धिम् ॥ अत्र जिष्णुत्वजातेर्भूभृद्गुणपक्षभेदविधान क्रियाफलत्वेनोत्प्रेक्षणाज्जातिभावफलोत्प्रेक्षेयम् । अत्रैवोत्तरार्धे कमलाभिवर्धनक्रियानिमित्तत्वेन मित्रत्वरूपजातिस्वीकाराज्जातिभावहेतूत्प्रेक्षा ।
यथा वा
कल्पकी भवितुं प्रायः कळुलेनञ्जभूपतिः । विबुधेभ्यो विनीतेभ्यो वर्षत्यमितसम्पदः ॥ अत्र कल्पकत्वजातेः सम्पर्षणफलत्वम् ।
मण्डलाग्रेण नन्दोराखण्डलबलश्रियः । जलदेनेव जगतां जनितस्तापनिह्नवः ॥ अत्र जलदत्वजातेस्तापनिह्नव हेतुत्वम् । अनुपात्तनिमित्तकजात्यभावफलोत्प्रेक्षा यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com