SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ विलास..] अलङ्कारप्रकरणम् । वदान्यभावेन समोऽपि ननक्षमामहेन्द्रेण सुरद्रुमोऽयम् । अवृक्षतायै नु तपो विधत्ते जटाप्ररोहानधिकं दधानः ॥ अत्र जटाप्ररोहधारणज्ञाप्यतपोविधानफलत्वेन वृक्षत्वाभावोपपादना. जात्यभावफलोत्प्रेक्षेयम् ।। जात्यभावहेतूत्प्रेक्षा यथा अक्षत्रभावादिव दानदक्षो वृक्षश्चिरं यो वसति स्म वन्याम् । स एव नञ्जक्षितिपालमूर्तिः क्षात्रेण दानेन लसत्यवन्याम् ॥ अत्र दानदक्षस्य वृक्षस्य वन्यां निवासहेतुत्वेनाक्षत्रभावस्वीकाराज्जात्यभावहेतृत्प्रेक्षा। अचक्रवाकाय महीतले किं विनिर्मिताभ्यां विधिना स्तनाभ्याम् । लोलावलग्ना नरपालकन्या नाक्षितीन्द्रं वरमर्थयन्ति ॥ अत्र स्तननिर्माणस्य चक्रवाकजात्यभावफलत्वमिति जात्यभाव. फलोत्प्रेक्षा। जात्यभावहेतूत्प्रेक्षा यथा वने नजेन्द्रभीतानां ससंरम्भपदार्पणैः । अवल्मीकादिव व्यालाः कैलासे स्थाणुमाश्रिताः ॥ वल्मीकत्वजात्यभावस्य स्थाण्वाश्रयणहेतुत्वाजात्यभावहेतूत्प्रेक्षा । गुणस्वरूपोत्प्रेक्षा यथा रणाडुणे नामहीवरस्य भुजाग्रसक्तो रणरेणुरागः । प्रायः प्रसीदद्धिजयेन्दिरायाः स्वैरस्तनाघातजरक्तिमश्रीः॥ अत्र रेणुरागे रक्तिमश्रीत्वेन सम्भावनात् गुणभावस्वरूपोत्प्रेक्षा । यथा वा रणे नानृपोन्मुक्ता बाहुसाङ्करिताः शराः। धावतेति हितं वक्तुमाह्वयन्ते ननु द्विषः ॥ अत्र साङ्करस्याहानात्मनोत्प्रेक्षणात् गुणभावस्वरूपोत्प्रेक्षा। गुणहेतृत्प्रेक्षा यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy