________________
विलास..]
अलङ्कारप्रकरणम् । वदान्यभावेन समोऽपि ननक्षमामहेन्द्रेण सुरद्रुमोऽयम् ।
अवृक्षतायै नु तपो विधत्ते जटाप्ररोहानधिकं दधानः ॥ अत्र जटाप्ररोहधारणज्ञाप्यतपोविधानफलत्वेन वृक्षत्वाभावोपपादना. जात्यभावफलोत्प्रेक्षेयम् ।। जात्यभावहेतूत्प्रेक्षा यथा
अक्षत्रभावादिव दानदक्षो वृक्षश्चिरं यो वसति स्म वन्याम् ।
स एव नञ्जक्षितिपालमूर्तिः क्षात्रेण दानेन लसत्यवन्याम् ॥ अत्र दानदक्षस्य वृक्षस्य वन्यां निवासहेतुत्वेनाक्षत्रभावस्वीकाराज्जात्यभावहेतृत्प्रेक्षा।
अचक्रवाकाय महीतले किं विनिर्मिताभ्यां विधिना स्तनाभ्याम् । लोलावलग्ना नरपालकन्या नाक्षितीन्द्रं वरमर्थयन्ति ॥
अत्र स्तननिर्माणस्य चक्रवाकजात्यभावफलत्वमिति जात्यभाव. फलोत्प्रेक्षा। जात्यभावहेतूत्प्रेक्षा यथा
वने नजेन्द्रभीतानां ससंरम्भपदार्पणैः ।
अवल्मीकादिव व्यालाः कैलासे स्थाणुमाश्रिताः ॥ वल्मीकत्वजात्यभावस्य स्थाण्वाश्रयणहेतुत्वाजात्यभावहेतूत्प्रेक्षा । गुणस्वरूपोत्प्रेक्षा यथा
रणाडुणे नामहीवरस्य
भुजाग्रसक्तो रणरेणुरागः । प्रायः प्रसीदद्धिजयेन्दिरायाः
स्वैरस्तनाघातजरक्तिमश्रीः॥ अत्र रेणुरागे रक्तिमश्रीत्वेन सम्भावनात् गुणभावस्वरूपोत्प्रेक्षा । यथा वा
रणे नानृपोन्मुक्ता बाहुसाङ्करिताः शराः।
धावतेति हितं वक्तुमाह्वयन्ते ननु द्विषः ॥ अत्र साङ्करस्याहानात्मनोत्प्रेक्षणात् गुणभावस्वरूपोत्प्रेक्षा। गुणहेतृत्प्रेक्षा यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com