________________
१०८
नजराजयशोभूषणम् । [विलास.. नक्तंदिवं वृद्धिमुपाश्रयन्तं
निरीक्ष्य नओन्द्रयशोहिमांशुम् । व्रीले(डे?)न नूनं कुसुमास्त्रजेतुः
कपदकान्तारगतो मृगाङ्कः ॥ अत्र कपर्दकान्तारगमनहेतुत्वेन ब्रीलस्य स्वीकारात् गुणहेतूत्प्रेक्षाभावरूपा गुणभावफलोत्प्रेक्षा यथा
देषाय किं तिग्मकरे नितान्तं
ननक्षमापाल तव प्रतापः । तदुन्मुखीनामपि पद्मिनीनां
मुखाम्बुजास्वामहो तनोति ॥ अत्र पद्मिनीसम्बन्धिमुखाम्बुजास्वादनं सूर्यद्वेषफलकमिति गुणभावफलोत्प्रेक्षेयम् । क्रियास्वरूपोत्प्रेक्षा भावरूपा यथाविदलितरिपुराशेर्वीरनञ्जक्षितीन्दो
रसिरतिविमलोऽयं रक्तधारावसिक्तः। अभिमुखजयलक्ष्मीकण्ठकल्हारदाम
प्रतिफलति किमत्रेत्यूह्यते सर्वलोकैः ॥ अत्र रक्तधारावसेके कल्हारदामप्रतिफलनक्रियास्वरुपोत्प्रेक्षा। क्रियाहेतूत्प्रेक्षा यथा
त्वत्खगवल्ली नजेन्द्र प्रतापनवपल्लवम् ।
सूते जयेन्दिराहाससुधासेकैरिव द्रुतम् ॥ अत्र प्रतापपल्लवोत्पत्तौ सुधासेचनस्य हेतुत्वोत्प्रेक्षणात् क्रियाभावहेतूप्रेक्षयम् । क्रियाभावफलोत्प्रेक्षा यथालोकालोकनगान्तरोदिततमःसर्वस्वनिर्वासने
वैदुष्यं तु ममेति वासरमणेर्दम्भं विभेत्तुं ध्रुवम् । सीमक्ष्माधरसर्वभागविचरड्डान्तापनोदिद्युते
नञ्जक्ष्माधिपतिप्रतापमहसो धाता विधाताऽभवत् ॥ अत्र प्रतापमहोविधानस्य भेदनक्रियाफलत्वमुत्प्रेक्ष्यते। ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com