SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ विलास. ] अलङ्कारप्रकरणम् । १७९ गुणाभावस्वरूपोत्प्रेक्षा यथा छिन्नेषु वैरिष्वमरौघमुक्त प्रसूनधारामहृतास्ररागः। अलब्धलक्ष्यः कमापस्तकोपो विराजते नञ्जनृपेन्द्रखड्गः ॥ अत्र रक्तरागाभावस्य कोपाभावात्मना सम्भावनात् गुणाभावस्वरूपोत्प्रेक्षा। गुणाभावहेतूत्प्रेक्षा यथाप्रक्रान्ताहवकौतुकस्य कलुलेननक्षमाभृन्मणे विक्रान्तध्वजिनीपुरःप्रचलिताः क्रोधस्फुरइंहिताः। शत्रुक्ष्मापनिवासदानसफलंमन्योन्नतत्वे गिरीन् उच्चैरक्षमयेव दन्तमुसलैर्भिन्दन्ति दृप्तद्विपाः ॥ अत्र ननक्षमापसेना पुरःप्रचलितदृप्तद्विपकर्तृकदन्तमुसलकरणकभेदनहेतु. त्वेन गिर्यधिकरणक्षमापनिवासदानसफलंमन्योन्नतत्वविषयकक्षमाभावस्य कथनात् गुणाभावहेतूत्प्रेक्षा। गुणाभावफलोत्प्रेक्षा यथा जगत्यनैल्याय ननूदितानां ननक्षमापालयशोभराणाम् । पुरः सुधांशुर्दिषतां च कान्तामुखानि मालिन्यमहो सृजन्ति॥ अत्र ननक्षमापालयशोभरोदयफलत्वेन नैल्यसामान्याभावस्य ग्रहणात् गुणाभावफलोत्प्रेक्षा। क्रियाऽभावस्वरूपोत्प्रेक्षा यथा ननक्षमाकान्तकराब्जनियत् कृपाणभृङ्गालिररिद्रुमेषु । छिद्राणि नूनं शतशः सृजन्ती निष्कामयत्यन्तरनिष्ठुरत्वम् ॥ अत्र छिद्रसृष्टिस्वरूपक्रियाया अन्तरनिष्ठुरत्वक्रमणाभावात्मनोत्प्रेक्षणात्, क्रियाभावस्वरूपोत्प्रेक्षेयम् । क्रियाऽभावहेतूत्प्रेक्षा यथा संज्ञावलप्रापितपुंस्त्वसम्पन्नित्योन्नता नानपाहितानाम् । __ असार्थपुंस्त्वोबहनेन नूनं वन्या निवासं वितरन्ति वृक्षाः॥ अत्र नाराजस्याहितानां वृक्षकर्तृकनिवासवितरणे सार्थकपुंधर्मोदहना. भावस्य हेतुत्वेनोत्प्रेक्षणात् क्रियाऽभावहेतूत्प्रेक्षा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy