SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८० नजराजयशोभूषणम् । [विलास. ७ क्रियाऽभावफलोत्प्रेक्षा यथा कृपीडजन्मा कलुलेनृपालप्रतापचण्डांशुकरावलीढः। अन्तस्तृषोन्मेषमपाचिकीर्षुःप्रायः पिबत्यम्बुनिधीनशान्तः॥ अत्रान्तापिपासोन्मेषरूपक्रियाऽभावस्याम्बुनिधिपानफलत्वेनोत्प्रेक्षणात् क्रियाभावफलोत्प्रेक्षा। द्रव्यस्वरूपोत्प्रेक्षा यथा को वा विजानाति गुहाश्रिताया मम [प्रभावं त्वि] ति षण्मुखस्य । शक्तिर्विधत्ते त्रिजगत्प्रसिद्ध नजेन्द्रखद्गाकृतिमेव नूनम् ॥ अत्र षण्मुखशक्तेर्नओन्द्रखगात्मना सम्भावनात् द्रव्यस्वरूपोत्प्रेक्षा । द्रव्यहेतूत्प्रेक्षा यथा अनेन जयिना स्कन्ददेवेनेव त्वयाऽधुना । नझेन्द्र साधु रचितं शूरपद्मावमाननम् ॥ अत्र शूरपद्मावमाननहेतुत्वेन स्कन्दस्य कथनात् द्रव्यहेतूत्प्रेक्षा । द्रव्यफलोत्प्रेक्षा यथा सुधासासा(रा)य महिते प्रायशो वसुधातले। विधाता वीरनजेन्दोर्विदधे गुणसम्पदः ॥ अत्र विधानफलत्वेन सुघासारस्योत्प्रेक्षणात् द्रव्यफलोत्प्रेक्षा । द्रव्याभावस्वरूपोत्प्रेक्षा यथा विराजमाने शशिनः कुलेऽस्मिन् नञ्जक्षितीन्द्र निजविक्रमेण । विश्वं समाक्रामति दुग्धसिन्धुः शडेऽधुना श्रीपतिना विमुक्तः ॥ अत्र दुग्धसिन्धौ श्रीपत्यभावस्योत्प्रेक्षणात् द्रव्याभावस्वरूपोत्प्रेक्षा । द्रव्याभावहेतूत्प्रेक्षा यथा हन्तुं हालाहलाभावात् सत्यं सुमनसां धृतिम् । पुनर्धात्रा कृतान मूर्खान्निडते ननभूपतिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy