SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ विलास. ७ ] अलङ्कारप्रकरणम् । १८१ अत्र हालाहला भावस्य पुनर्विधानहेतुत्वसम्भवात् द्रव्याभावहेतूत्प्रेक्षा । द्रव्याभावफलोत्प्रेक्षा यथा आनन्दधाराकलनप्रसङ्गेध्वनिन्दवे नूनमह स्त्रियामम् । आमोदयत्यद्भुत शौर्य भाजामग्रेसरो नञ्जनृपस्त्रिलोकीम् ॥ अन्दोर भावस्या मोदनफलत्वमिति द्रव्याभावफलोत्प्रेक्षा । अनेकव्यक्तिस्थले जात्युत्प्रेक्षा । एकव्यक्तिस्थले द्रव्योत्प्रेक्षेति रहस्यम् । इत्यादि यथासम्भवमूह्यम् । ' विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र साऽतिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता ॥' यत्र कविप्रौढोक्त्या विषयस्य तिरोधानेन निगरणेन विषयी निबध्यते साऽतिशयोक्तिः । निगरणञ्च विषयवाचकपदप्रयोगाभावः । कचित् तु भूतस्य (?) तस्य कविकल्पितत्वं वा । असिद्धप्रयोग इत्युभयोरनुगतिः । यथा— जातः सोऽभूद्विते सौम्यवंशे पार्थः पृथ्वीमण्डलोद्दण्डशौर्यः । चित्तोल्ला यस्य धर्मो महीयान् प्राप्तो भूपेष्वाञ्जनेयध्वजं यः ॥ अत्र तच्छन्दबोधिते नञ्जराजे विषये विषयिभूतपार्थाभेदप्रतीतिनिबन्धनानञ्जराजार्जुनो भयवृत्तिगुणोत्कर्षयोः फलयोरेवाभेदाध्यवसायादतिशयोक्तिः । न तु फलिनोर्विष [ यविष] यिणोः । तदुक्तं चक्रवर्त्तिना अभेदाध्यवसायो हि फलेऽतिशयनामनि । न पुनः फलिनस्तत्र मेदे [s]भेदो न सिध्यति ॥ अत्र स इति तत्शब्देन विषयोपादानेऽपि विषयितावच्छेदकरूपेण विषयस्यानुपादानाद्विषयनिगरणं बोध्यम् । सा षड्विधा । अभेदे भेदकथनं भेदे सत्यभिदाभिघा । अयोगे योगकथनं योगे चायोगवर्णनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy