SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १८२ नजराजयशोभूषणम् । [विलास.७ कार्यकारणयोः कालस्यैक्यं तव्यत्ययोऽपि च । षविधाऽतिशयोक्तिर्हि सम्मता चारुचेतसाम् ॥ तत्राया यथा सन्तु सहस्रं सुदृशः सकलजनश्लाघ्यवैभवोल्लसिताः। नाविभुलालितायाः सुतनोः सौभाग्यसम्पदन्यैव ॥ अत्र सौभाग्यसम्पदो वास्तवाभेदेऽपि भेदः कल्पितः। अत्र स्वतःसिद्धकविप्रौढोक्तिसिद्धसौभाग्यसम्पदोरभेदाध्यवसायः । भेदेऽप्यभेदकथनं यथाजिह्वायां न च वक्ति (कि?) मा न च मतौ मन्दत्वमङ्गेऽपि वा मालिन्यं न च लीलयाऽपि महिभृत्पादस्वयंसेवनम् । दृप्यसिहनिनादतोऽपि न च ते भीतिस्तथाऽपि प्रभो नित्यं श्रीनृपते नमन्नृपतते त्वं हस्तिनामग्रणीः॥ अत्र नञ्जराजदिग्दन्तिनोरसाधारणभुवनधौरन्धर्याद्यभेदाध्यवसायः । अयोगे योगकथनं यथा विबुहा वहूहि गीदे होदो गंजेंद जसहरे जादे(दु?)। सुमरेन्ति णेव्व ईसि वि अमिअंतकालणिस्सरन्तं वि ॥ अत्र विबुधानाममृतस्मृतियोगसत्त्वेन तद्भावायोगेऽपि तत्कल्पनादयोगेऽपि योगकथनम् । योगेऽप्ययोगकथनं यथानञ्जक्ष्मापप्रतापज्वलदनलभरैः पच्यमाने पयोधौ तापादप्राप्तनिद्रः सरभसमधुना तं विदूरे विमुश्चन् । कान्त्या प्रान्तं विलिम्पन् कुवलयविपिनश्रीविलासं हसन्त्या स्वच्छन्दं चन्द्रबिम्बे स्वपति नवसुधापूरिते शौरिरेषः ॥ अत्र शौरेः पयोधियोगे सत्यपि तदभावकथनात् योगेऽप्ययोगकल्पनम् । कार्यकारणयोरेककालापत्तिर्यथा यदा युधि प्रन्ति विरोधिनो यान् ननक्षमापालभटाः कृपाणैः । (छा) विबुधावभिर्गीते भवतो नझेन्द्र यशोभरे जाते (तु ?)। स्मरन्ति नैव ईषदपि अमृतं तत्कालनिःसरदपि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy