________________
क्लिास..]
अलङ्कारप्रकरणम् । सदाऽभिविध्यन्ति हि वेणिकाभि
स्तानेव केलीषु सुपर्वकान्ताः ।। अत्र नाराजभटकृपाणकरणकहननानन्तरभाविनोऽपि सुपर्वकान्तावेणीताडनस्य कारणसहोत्पत्तिकथनात् कार्यकारणयोरैककालिकत्वम् । अत्र कार्यशैध्यस्य योगपद्यादिरूपेणाध्यवसायः । कार्यकारणपौर्वापर्यव्यत्ययोयथा
नञ्जमाप कुलाचलोन्नत नतक्ष्मापालरक्षाव्रत
त्वय्यायोधनरङ्गमीयुषि रुषा जृम्भत्प्रतापार्चिषि । बाधियं पुरतोऽजनि श्रवणयोस्त्वविद्विषामुद्गता
पश्चादावृतदिक्तटी तव धनुमौंर्वीनिनादार्भटी ॥ अत्र कार्यभूतस्य बाधिर्यस्य प्रथममुत्पत्तिः । पश्चान्मौर्वीनिनादाव्याः कारणभूतायाः सम्भव इति कार्यकारणयोर्व्यत्ययः पौर्वापर्यः) । उक्तिसाम्यालङ्कारनिरूपणेऽतिशयोक्तिहेतुका सहोक्तिनिरूप्यते ।
'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥' यत्र भेदेऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया चातिशयोत्तया एकस्य प्राधान्येनान्वयेऽन्यस्य सहार्थेन सम्बन्धे उपमानोपमेयभावः परिकल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहाथसम्बन्धेन दयोरपि प्रकृतत्वान्न तदात्मता । इयं च भेदेऽभेदातिशयोक्तिः श्लेष. गर्भा च चारुत्वहेतुर्भवति । द्वयमपि यथा
येनाभूदतिबाल्य एव विजयश्रीवेणिवल्या सह
त्रैलोक्यैकभयङ्करेऽपि समरे खड्नो दृढालम्बितः। साकं चन्द्रमसः श्रिया कुवलयोल्लासं विधत्ते यश:
स्फतिर्यस्य स नञ्जभूपतिमणिः पुष्णाति नः कौतुकम् ॥ अत्र खड्गालम्बनस्य विजयश्रीवेण्यालम्बनस्य च हेतुमद्भावप्राप्तस्य क्रमव्यत्ययकथनात् कार्यकारणव्यत्ययरूपातिशयोक्तिमूलका सहोक्तिः । उत्तरार्धे तु श्लेषगर्भा भेदातिशयोक्तिमूलका सहोक्तिः।
एकस्योक्तेः प्रधानत्वेनान्यस्यस्यात्सहार्थता(तः)। औपम्यं गम्यते यत्र सहोक्तिस्तत्र कथ्यते ॥ इति वा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com