SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ नञ्जराजयशोभूषणम् । [ विलास. ७ यत्र उपमानोपमेयभावे विवक्षित एवैकस्य प्राधान्येन निर्देशेऽन्यस्य च समानार्थसम्बन्धादप्राधान्येनौपम्यं गम्यते तत्र सहोक्तिः । इयं भावाभावाभ्यां भवति । यथा नञ्जक्षितीन्द्रे शशिनः कुलेऽस्मिन् जाते दिगन्तैर्विदुषां मनोभिः । सह प्रसीदे द्विषतां समूहैर्लिल्ये समं क्वापि जनोपसर्गैः । अत्र भावरूपाऽभावरूपा च सहोक्तिः । अथैतत्प्रतिकोटितया विनोक्तिर्निरूप्यते । १८४ विनोक्तिः । 'विना सम्बन्धि यत्किञ्चिद्यत्रान्यस्य परापतेत् । अरम्यता रम्यता वा सा विनोक्तिरनुस्मृता ॥ ' यत्र कस्यचिदसन्निधानाद्रम्यता अरम्यता वा वस्तुनः तत्र विनोक्तिः स्याद्विनार्थोक्तिर्या स्यादौपम्यगम्यता । इति वा । तत्रारम्यता यथा— अनर्धरत्नोज्ज्वलमौलिभाजामपि प्रतिष्ठा रिपुमस्तकानाम् । कथं भवेन्नञ्जविभो तबैव पादाम्बुजस्पर्शनमन्तरेण ॥ अत्र नञ्जविभुपादाम्बुजस्पर्श विनाकृतानां तथाविधानामपि रिपुमस्तकानामरम्यतोक्ता । तेन प्रतिष्ठामिच्छद्भिवैरिभिर्नञ्जराज एव शरणयितव्य इति विधिः प्रकाश्यते । यथा वा पुष्यन्ति न विना चन्द्रकान्त्या कैरवसम्पदः । नजेन्द्र तव कीर्त्या च विना कवयतां गिरः ॥ अत्र नञ्जराजकीर्तिकविगीर्षु इन्दुचन्द्रिकाकुमुदसम्पद्भिः सह गम्यौपम्ययुक्ता विनोक्तिः । किञ्चिनि रम्यता यथा नवनीतमृदुलहृदये नञ्जबिभौ लसति सन्ततोदग्रे । उच्चैरपि कनकगिरिः स्तूयेत विनैव कठिनभावेन ॥ अत्र कठिनभावेन विना कनकगिरे रम्यतोक्ता । उक्तिसाम्यात्समासोक्तिं लक्षयति । - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy