________________
विलास..] अलङ्कारप्रकरणम् ।
१८५ 'विशेषणानां तौल्येन यत्र प्रस्तुतवत्तिनाम् ।
अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरुच्यते ॥' विशेषणविशेष्याभ्यामर्थान्तरप्रतीतेन श्लेषता । ननु समासोक्तावप्रकृतारोपणस्य गम्यत्वात् गम्यरूपकसाङ्कर्यशङ्का दुर्निवारेति चेन्मैवम् । प्रस्तुतोपरञ्जकत्वमात्रादप्रस्तुतस्य । न च परिणामान्तर्भावः। आरोपविषयस्यारोप्यमाणरूपतया परिणामे आरोप्यमाणप्राधान्येनारोपविषयतिरोधानं हि परिणामालङ्कारप्रयोजकम् । आरोप्यमाणवस्तुना सादृश्यवैशिष्टयप्रतिभामात्रेण आरोप्यगम्यतानुपमर्दादारोपविषयस्यैव प्राधान्येन प्रतिपत्तिः समासोक्तिप्रयोजिकेति रहस्यम् । श्लिष्टविशेषणसाम्यात् साधारण्यादौपम्यगम्यतया चेति त्रिविधा । तत्राद्या यथा ।
लिग्धामुन्मुक्तशोभामनवरतममित्रावलोकप्रसङ्गात्
कान्तिप्रारभारचञ्चन्मघवमणिलसन्मेखलालङ्कृताङ्गीम् । उद्दामोद्यनितम्बामवधिगिरिशिलाचक्रपाश्चात्यसीमा
मुल्लास्यातीव रक्तो विलसति तरुणो नञ्जराजप्रभावः ॥ यथा वा-'कस्मात्केवलकैतवै'रित्यादि[९-प.]अत्र स्निग्धेत्यादिविशेषणमहिना पूर्वश्लोकेअवधिगिरिशिलाचक्रपाश्चात्यसीमनि अनन्तरश्लोके साहित्यां च नायिकात्वप्रतीतिः । साधारणविशेषणेन यथा
नाक्षितीन्द्रभटहस्तलसत्कृपाण
धारा विलोलमनसामवनीपतीनाम् । संस्तम्भयन्ति हृदयानि विवर्णयन्ति
गात्राणि नेत्रयुगलीमपि घूर्णयन्ति ॥ अत्र प्रस्तुतस्य भयानकरसस्य अप्रस्तुतस्य शृङ्गाररसस्य च साधारणीभूतगात्रस्तम्भनादिविशेषणबलात् कृपाणधारासु अवनीपतिषु च नायिकानायकभावप्रतीतिः।
औपम्यगर्भता यथासोल्लासस्तनचक्रवाकमहिताः सञ्चारिमीनेक्षणा वीचीबाहुविराजिताश्च पुलिनश्रोणीभरोल्लासिताः ।
३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com