________________
१८६ नजराजयशोभूषणम् ।
[विलास.. कन्या भूमिभृतां सफेनहसितोदेल्लत्तरङ्गाधरा
नञ्जेन्द्रं गुणरत्नजालवसतिं पश्यन्ति हृष्यन्ति च ॥ अत्र चक्रवाकाविव स्तनावित्याद्युपमानगर्भत्वेन प्रकृते समासे पश्चात् स्तनसदृशैश्चक्रवाकैरिति च समासान्तराश्रयतया समानविशेषणमाहात्म्यात् कन्यासु नदीत्वप्रतीतिः, नञ्जेन्द्रे रत्नाकरत्वप्रतीतिश्चेति औपम्यगर्भवम् । समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः [लौकिके वस्तुनि] लौकिकव्यवहारसमारोपः, लौकिके वस्तुनि शास्त्रीयव्यवहारसमारोपः, शास्त्रीयवस्तुनि शास्त्रीयव्यवहारसमारोपः, शास्त्रीयवस्तुनि लौकिकव्यवहारसमारोपः । तत्रादिः उदाहृतश्लोकत्रये दर्शितः। शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपो यथा
रसं स्थिरीकर्तुमतिप्रगल्भा
विज्ञातधातुप्रभृतिप्रचाराः। समस्तलेह्योचितपाकभेदान्
जानन्ति नञ्जक्षितिभृत्कवीन्द्राः ॥ अत्रालङ्कारशास्त्रीयवस्तुनि वैद्यशास्त्रीयवस्तुसमारोपः लौकिके वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपो यथा
अर्धेन्दुरेखयैव प्रकटितसंयोगविवृतगुरुभावा।
बहुशुद्धवर्णवृत्तस्तोमं सूतेत्र नञ्जनूपकीर्तिः ॥ अत्र अर्धेन्दुरेखयैव-अर्धचन्द्ररेखयैव प्रकटितसंयोगतया-प्रकटितसम्बन्धतया प्रकाशितसहवासतयेति यावत् । विवृतगुरुभावा-प्रकटितगौरवा बहुशुद्धवर्णानामधिकस्वच्छकान्तीनां यानि वृत्तानि वर्तनानि तेषां स्तोमं सूते । सर्वत्र स्वच्छकान्ति सम्पादयतीत्यर्थः । इदं च लौकिकवस्तु । अत्रैव अर्धेन्दुरेखयैव-अर्धचन्द्रसदृशरेखयैव प्रकटितः संयोगः-संयुक्तवर्णो यस्य स प्रकटितसंयोगः । तस्मिन् विवृतगुरुभावा-प्रकाशितगुरुत्वा । अर्धचन्द्राकाररेखालेखनेनैव संयुक्तपरके वर्णे गुरुत्वं प्रकटनीयमिति छन्दःशास्त्रेऽनुशासननियमः। बहुशुद्धवर्णवृत्तस्तोमं-बहूनि अनेकानि शुद्धानि असङ्कीर्णानि वर्णवृत्तानि अक्षरवृत्तानि तेषां स्तोमं सूते । इति छन्दःशास्त्रीयवस्तुव्यवहारसमारोपः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com