________________
विलास..]
अलकारप्रकरणम् ।
१०
१८७
शास्त्रीयवस्तुनि लौकिकव्यवहारसमारोपो यथा
अपूर्वसुप्रत्ययमुदहन्त्या पुंभावकृत्येत्वमपि प्रकृत्या।
विराजिते मागघि वर्णयस्व श्रीनाराजं कविलोकभोजम् ॥ पुंभावकृत्यत्वं-पुंभावः पुंस्त्वं तस्य कृतिः कारणं विधिरिति यावत् तस्मिन्नेत्वं यस्य तम् । अपूर्वसुप्रत्ययम्-अपूर्वः अकारपूर्वः सुप्रत्ययः प्रथमाविभत्त्येकवचनम् । तमुखहन्त्या प्रकृत्या प्रातिपदिकेन विराजिते । मागधि मगधदेशभाषे श्रीनाराजं वर्णयस्वेति । अत्र प्राकृतव्याकरणशास्त्रीयं वस्तु मागध्यां 'सौ पुंस्येलतः इति सूत्रोक्तिः । पुंभावकृत्ये पुरुषायितरूपे कार्ये अपूर्वसुप्रत्ययं अपूर्वज्ञानं आश्रयन्त्या प्रकृत्या स्वभावेन विराजिते मागधीत्यर्थश्चेति शास्त्रीयवस्तुनि लौकिकव्यवहारसमारोपः।
उक्तिसाम्येऽपि श्लेषगर्भवविशेषाद्धकोक्तिरुच्यते । 'अन्यथोक्तस्य वाक्यस्य काका श्लेषेण वा भवेत् ।
अन्यथा योजनं यत्र सा वक्रोक्तिरितीष्यते ॥ यत्र कयाचिद्विवक्षया केनचित्प्रयुक्तस्य वाक्यस्यान्येनान्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः। तत्र काका यथा
उप (१) रअणाअररसणा वसुमदिआ रमइ सुगुणमहुरंमि ।
गंजेन्दम्मि वि होदी ताए अहिआ ण सहि मुहा भमसि ॥ अत्र कयाचिन्मूर्खया नायिका प्रति-"भवत्यपि वसुमत्या अधिका न । मुघा भ्रमसि"इति विवक्षया प्रयुक्ते वाक्ये ऽन्यया समर्थया-त्वमपि अधिका न। अधिकैव । तन्मुधा भ्रमसि । त्वय्येव नाराजः प्रीतिं तनुत इत्यर्थसमर्थनात् काकुसहिता वक्रोक्तिरियम् । श्लेषेण यथा
सवृत्त, स्तनमण्डलं तव, मधूदाराकृते, तेऽधरः,
सान्द्रस्नेहनिबद्ध, पङ्कजमुखि प्रायो भवढेणिका। औदार्यादतिलड्डयकर्ण, नयने कान्ते तवे, त्युक्तिभि.
नित्यं स्त्रीषु चमक्रिया विदधते नञ्जेन्द्रसख्यानपाः। अत्र वृत्तमधुस्नेहौदार्यकर्णशब्दानां चरित्रवसन्तप्रेमौ[दाय] राधेयपरत्व(छा) पश्य (?) रत्नाकररशना वसुमती रमते सुगुणमधुरे।नलेन्द्रेऽपि भवती तस्य अधिकान सखि मुधा भ्रमसि।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com