SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १८८ नञ्जराजयशोभूषणम् । [ विलास. ७ विवक्षया प्रयुक्तानां नायिकयोदितानां वृत्ताकारवसन्ततैल महत्त्वादिपरत्वेन नायकेनान्यथा समर्थनाच्छेष पूर्विका वक्रोक्तिरियम् । उक्तिसाम्यात्स्वभावोक्तिर्निरूप्यते । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । ' स्वेदार्द्राकुलमाकुलाकुलकचं निःश्वासवल्गत्कुच स्त्रस्तारण्यतरुप्रकाण्डविटपासक्तापकृष्टांशुकम् । नञ्जक्ष्माप भवद्विरोधिसुदृशो धावन्ति कान्तैः समं शैलेष्वा पतदुत्पतज्जनकरैरादर्शिताध्वक्रमाः ॥ अज्ञात भाषाणां मार्गप्रदर्शनक्रमो हस्तेनैवेति । स्पष्टमन्यत् । उक्तिसाम्याद्वयाजोक्तिर्निरूप्यते । यत्नेन संवृतं वस्तु कुतश्चिद्विवृतं यदि । निगृह्यतेऽन्यविधया व्याजोक्तिस्तत्र कथ्यते ॥ यत्र विवृतं प्रकाशितं वस्तु अन्यविधया केनचिद्व्याजेन निगूह्यते प्रच्छाद्यते सा व्याजोक्तिः । यथा - आदर्शसद्मनि सखीजनवर्ण्यमाने नञ्जप्रभौ सहसिता नरपालकन्या । हीणा च मातरमपृच्छये ममेयं नासामणिः किरति कान्तिमुपान्तभागे ॥ अत्र होणा हृदयगतनञ्जराजासक्तिसूचकशृंगारचेष्टात्मक हसितमेव नासामणिकान्तिप्रसरणव्याजेन निगूह्यते । नन्वपह्नवालाङ्करादस्याः कथं भेद इति चेदुच्यते । अपह्नवे हि प्रकृतस्याप्रकृतसादृश्यलक्षणफलकटाक्षेण प्रकृतमपलाप्याप्रकृतमारोप्यते । इह तु सिद्धमेव सादृश्यं साधनतयाऽवलम्ब्य निह्नवः क्रियते । तेनोभयोरपह्नवपूर्वकत्वाविशेषेऽपि सादृश्यस्य फलत्वसाधनत्वाभ्यां भेदः । यद्वाऽपह्नुतौ वचनस्यान्यथानयनेनापह्नवः । अस्यां त्वाकारहेत्वन्तरवर्णनेन गोपनमिति तयोर्भेदः । व्याजोक्तिरित्यत्रोक्तिग्रहणमाकारगोपनार्थक हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षकम् । तेन प्रणामादिचेष्टादिभिरप्याकारगोपनं व्याजोक्तिरिति मन्तव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy