________________
१८८
नञ्जराजयशोभूषणम् ।
[ विलास. ७
विवक्षया प्रयुक्तानां नायिकयोदितानां वृत्ताकारवसन्ततैल महत्त्वादिपरत्वेन नायकेनान्यथा समर्थनाच्छेष पूर्विका वक्रोक्तिरियम् ।
उक्तिसाम्यात्स्वभावोक्तिर्निरूप्यते ।
'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । '
स्वेदार्द्राकुलमाकुलाकुलकचं निःश्वासवल्गत्कुच
स्त्रस्तारण्यतरुप्रकाण्डविटपासक्तापकृष्टांशुकम् । नञ्जक्ष्माप भवद्विरोधिसुदृशो धावन्ति कान्तैः समं शैलेष्वा पतदुत्पतज्जनकरैरादर्शिताध्वक्रमाः ॥ अज्ञात भाषाणां मार्गप्रदर्शनक्रमो हस्तेनैवेति । स्पष्टमन्यत् । उक्तिसाम्याद्वयाजोक्तिर्निरूप्यते ।
यत्नेन संवृतं वस्तु कुतश्चिद्विवृतं यदि । निगृह्यतेऽन्यविधया व्याजोक्तिस्तत्र कथ्यते ॥
यत्र विवृतं प्रकाशितं वस्तु अन्यविधया केनचिद्व्याजेन निगूह्यते प्रच्छाद्यते सा व्याजोक्तिः । यथा
-
आदर्शसद्मनि सखीजनवर्ण्यमाने
नञ्जप्रभौ सहसिता नरपालकन्या । हीणा च मातरमपृच्छये ममेयं
नासामणिः किरति कान्तिमुपान्तभागे ॥
अत्र होणा हृदयगतनञ्जराजासक्तिसूचकशृंगारचेष्टात्मक हसितमेव नासामणिकान्तिप्रसरणव्याजेन निगूह्यते ।
नन्वपह्नवालाङ्करादस्याः कथं भेद इति चेदुच्यते । अपह्नवे हि प्रकृतस्याप्रकृतसादृश्यलक्षणफलकटाक्षेण प्रकृतमपलाप्याप्रकृतमारोप्यते । इह तु सिद्धमेव सादृश्यं साधनतयाऽवलम्ब्य निह्नवः क्रियते । तेनोभयोरपह्नवपूर्वकत्वाविशेषेऽपि सादृश्यस्य फलत्वसाधनत्वाभ्यां भेदः । यद्वाऽपह्नुतौ वचनस्यान्यथानयनेनापह्नवः । अस्यां त्वाकारहेत्वन्तरवर्णनेन गोपनमिति तयोर्भेदः । व्याजोक्तिरित्यत्रोक्तिग्रहणमाकारगोपनार्थक हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षकम् । तेन प्रणामादिचेष्टादिभिरप्याकारगोपनं व्याजोक्तिरिति मन्तव्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com