SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ विलास.७] अलङ्कारप्रकरणम्। १८९ मीलनं वस्तुनैकेन वस्त्वन्तरनिगूहनम्' यत्रैकेन वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालङ्कारः । स विविधः । सहजेनागन्तुकतिरोधानम् । आगन्तुकेन सहजतिरोधानं चेति । तत्र प्रथमं यथा कर्णावतंसनवनीलसरोजलक्ष्मी माच्छादयद्भिरधिकं ललितैः कटाक्षः। आक्रान्तमात्मनि गतं मुहुरुत्किरन्ती कान्ता विलोकयति काचन नञ्जभूपम् ॥ अत्र सहजेन कटाक्षरूपवस्तुनाऽऽगन्तुककर्णावतंसनीलोत्पलश्रीरूपवस्तुनो निगृहनम् । द्वितीयं यथाविलासवीथीजुषि नञ्जभूपे विलोकितेऽभून्नगराङ्गनानाम् । कन्दर्पभीतिर्नितरां गुरूणामालोकजन्यं भयमावरीतुम् ॥ अत्रागन्तुकनञ्जराजदर्शनप्रयुक्ता कन्दर्पभीतिः सहजां गुरुजनदर्शनप्रयुक्तभीतिमावरीतुमभूदित्यागन्तुङ्केन सहजतिरोधानम् । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता। यत्रैकस्य वस्तुनो गुणसाम्येन वस्त्वन्तरतादात्म्यप्रतीतिस्तत्र सामान्यालङ्कारः । अत्र गुणसाम्येत्यनेन मीलनव्यावृत्तिः । न हि मीलने गुणतः परेण तिरोधानम् । अपि तु वस्तुना वस्त्वन्तराच्छादनमात्रं, न चापहवेऽन्तभावः । अत एव सामान्यपदप्रवृत्तिः । यथानञ्जक्ष्मापशरौघपूरितवपुर्निष्यन्दमानासृजः । प्रत्युर्वीशगजान् पलाय्य समरादस्ताद्रिमारोहतः । तत्रत्यानपि सान्द्रसाध्न्यकिरणोत्कीर्णान् पयोदव्रजान् यत्नादप्यधिकात् पृथग्गणयितुं शक्नोति को वा जनः ॥ अत्रारुण्यमिश्रितनीलरूपसाम्यादुभयोरैक्यप्रतीतेन कस्यापि पृथग्ग्रहणचातुर्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy