________________
विलास.७]
अलङ्कारप्रकरणम्।
१८९
मीलनं वस्तुनैकेन वस्त्वन्तरनिगूहनम्' यत्रैकेन वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालङ्कारः । स विविधः । सहजेनागन्तुकतिरोधानम् । आगन्तुकेन सहजतिरोधानं चेति । तत्र प्रथमं यथा
कर्णावतंसनवनीलसरोजलक्ष्मी
माच्छादयद्भिरधिकं ललितैः कटाक्षः। आक्रान्तमात्मनि गतं मुहुरुत्किरन्ती
कान्ता विलोकयति काचन नञ्जभूपम् ॥ अत्र सहजेन कटाक्षरूपवस्तुनाऽऽगन्तुककर्णावतंसनीलोत्पलश्रीरूपवस्तुनो निगृहनम् । द्वितीयं यथाविलासवीथीजुषि नञ्जभूपे विलोकितेऽभून्नगराङ्गनानाम् ।
कन्दर्पभीतिर्नितरां गुरूणामालोकजन्यं भयमावरीतुम् ॥
अत्रागन्तुकनञ्जराजदर्शनप्रयुक्ता कन्दर्पभीतिः सहजां गुरुजनदर्शनप्रयुक्तभीतिमावरीतुमभूदित्यागन्तुङ्केन सहजतिरोधानम् ।
'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता।
यत्रैकस्य वस्तुनो गुणसाम्येन वस्त्वन्तरतादात्म्यप्रतीतिस्तत्र सामान्यालङ्कारः । अत्र गुणसाम्येत्यनेन मीलनव्यावृत्तिः । न हि मीलने गुणतः परेण तिरोधानम् । अपि तु वस्तुना वस्त्वन्तराच्छादनमात्रं, न चापहवेऽन्तभावः । अत एव सामान्यपदप्रवृत्तिः । यथानञ्जक्ष्मापशरौघपूरितवपुर्निष्यन्दमानासृजः ।
प्रत्युर्वीशगजान् पलाय्य समरादस्ताद्रिमारोहतः । तत्रत्यानपि सान्द्रसाध्न्यकिरणोत्कीर्णान् पयोदव्रजान्
यत्नादप्यधिकात् पृथग्गणयितुं शक्नोति को वा जनः ॥ अत्रारुण्यमिश्रितनीलरूपसाम्यादुभयोरैक्यप्रतीतेन कस्यापि पृथग्ग्रहणचातुर्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com