SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १९० नअराजयशोभूषणम्। [विलास. ७ इतरगुणसंविधानातिशयसाम्यात्तद्गुण उच्यते । तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणोदयः (णाहृतिः)। यत्र नूनं स्वगुणं विहाय सन्निहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । स्वगुणहानेन तस्य-परस्य गुणः अत्रेति तद्गुणपदप्रवृत्तिः । अयमिह विवेकः । यत्र समानगुणसम्बन्धे सत्येवान्यस्यान्याच्छादकत्वं तत्र सामान्यालङ्कारः । यत्र गुणवैसादृश्ये सत्येव दुर्बलनिजगुणहानेन सन्निधिमहिना प्रोज्ज्वलगुणस्वीकारस्तत्र तद्गुणालङ्कारः । यत्र गुणोपादानाद्यविवक्षया वस्तुनो वस्त्वन्तरेणाच्छादनं तत्र मीलनालङ्कारः। यत्र सादृश्येन कस्यचिदपलापस्तनापहव इति। यथा प्रतापयोगात्कलुलेनरेन्दोः प्रालेयशैलं नवकुडमाभम् । जयेशचापेति जनान् स्तुवानान् हरो हसत्यद्य सहस्ततालम् ॥ अत्र कृतिनायकप्रतापारुण्यबन्धेनारुणीकृतं प्रालेयशैलं ईशचापो मेरुरिति स्तुवानान् हसतीत्यनेन प्रालेयशैलेन स्वीयधवलगुणः परित्यज्यत इति तद्गुणालङ्कारः । तत्प्रातिभव्यादतद्गुणो निरूप्यते । सति हेतौ परगुणास्वीकारःस्थादतद्गुणः । यत्र सन्निधानहेतौ सत्यपि परगुणाग्रहणं तत्र अतद्गणालङ्कारः। यथा सुमेरुरूप्याचलनीलशैलैरुद्दामशोभाकबलीकृताशैः। आलिङ्गिताऽप्यद्य नरेन्द्रमौलेनाप्रभोः कीर्तिरनुज्झितश्रीः॥ अत्र सुमेर्वादिकान्तिसंवलनेऽपि कीर्तेः स्वगुणापरित्यागकथनादतद्गुणत्वम् । अतद्गणेन किञ्चित्मक्रान्तत्वाद्विरोधस्य विरोधाभासालङ्कारो निरूप्यते। 'आभासत्त्वे विरोधस्य विरोधालतिर्भवेत् ।' यत्राभासतः प्रतीतो विरोधः पर्यवसाने परिहीयते तत्रविरोधाभासालङ्कारः। पर्यवसानेऽपि यदि विरोधस्तथैवावतिष्ठते तदा दोष एव । तत्र जातिक्रियागुणद्रव्यश्चत्वारो विरोधाभासभेदाः । जातेोत्यादिना विरोधे चत्वारो भेदाः। क्रियायाः क्रियागुणद्रव्यैः सह त्रयो भेदाः। गुणस्य गुणद्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy