________________
१९१
बिलास. ७]
अलकारप्रकरणम्। व्याभ्यां सह विरोधे छौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । इत्थं दशविधा विरोधाभासाः। तत्र-जातेर्जात्या सह जातेः क्रियया च विरोधो यथाननक्षमापालविरोधिभूपाः महाविषादा अपि युध्यनीशाः । ताम्यन्त्यखड्गा अपि गण्डकेषु स्फुटस्फुरन्मांसलभावभाजः॥
महाविषं कालकूटं तमदन्तीति तथोक्ताः। महान् विषादो येषां ते। इत्यर्थश्च । अनीशा ईशभिन्नाः । असमर्थाश्च । तथाच महाविषादत्वानीशत्वजात्योरेकत्रविरोधापाततो विरोधस्फूर्तिः । खेदयुक्ताअसमर्थाश्चेति विरोधपरिहारः। ततश्च पूर्वार्धे जात्योर्विरोधः। उत्तरार्धे तु अखड्गाः खड्गमृगभिन्नाः। गण्डकेषु खड्गमृगेषु स्फुटं स्फुरन् व्यक्तं प्रकाशमानः मांसलः अधिकःभाव: अभिप्रायः तं भजन्तीति तथोक्ताः । अन्यत्र अखड्गाः कृपाणरहिताः। गण्डकेषु गण्डस्थलेषु स्फुटस्फुरन्मांसलभावः उच्छूनता । तं भजन्तीति तथोक्ताः। अत्र प्राथमिकार्थमादाय अखड्गत्वजातेः स्फुटस्फुरन्मांसलभावभजनरूपक्रियायाश्च विरोधः । द्वितीयार्थमादाय विरोधपरिहारः। अतः श्लेषमूलोऽयं विरोधः । उत्तरत्रैवमेवोह्यम्।। गुणद्रव्याभ्यां जातेश्च विरोधो यथा
सुप्रतीकोऽप्यमलिनो वीरनामहीपतिः।
प्राणोऽपि जगतां नित्यं प्रचेता भुवि राजते ॥ अत्र जगतां प्राणः प्रचेताः वरुणः, जगदावश्यकः प्रकृष्टमनाश्च । सुप्रतीक-दिग्गजः, शोभनावयवश्च । अत्र सुप्रतीकत्वजाते.मल्यात्मकगुणस्य च विरोधः । जगत्प्राणत्वरूपजातेः प्रचेतोरूपद्रव्यस्य च विरोधः । अत्रापि श्लेषमूलः। क्रियायाः क्रियया विरोधो यथा
नञ्जेन्द्र भवतः सौम्यवंशजाऽपि धनुर्लता।
इयं न सहते राजमण्डलस्योत्पथस्थितिम् ॥ सौम्यवंशजा-बुधवंशजा राजमण्डलस्य-चन्द्रमण्डलस्य उत्पथस्थितिम् । अन्यत्र सौम्येति सम्बुद्धिः । वंशजा-वेणुजा । राजमण्डलस्य नृपसमूहस्य उत्पथस्थितिं न सहत इति । अत्र सौम्यवंशजननरूपक्रियाया राजमण्डलस्थित्यसहनरूपक्रियायाश्च विरोधः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com