________________
१९२ नजराजयशोभूषणम् ।
[विलास. ७ गुणक्रियाभ्यां विरोधो यथा
अपि सर्वत्र सस्नेहः खड्गो नञ्जमहीपतेः ।
मुखेनैव परोन्मेषं पराकर्तुं प्रतीक्षते ॥ सस्नेहः प्रेमयुक्तः तैलयुक्तश्च, परोन्मेष-अन्यजनोन्मेषं शत्रुजनोन्मेषश्च । तथा चात्र स्नेहरूपगुणस्य प्रतीक्षणरूपक्रियायाश्च विरोधः । गुणद्रव्याभ्यां विरोधो यथा
मेघनादोऽपि नञ्जेन्द्र तव सङ्कामदुन्दुभिः ।
धत्ते धावद्विषन्नागकुम्भकर्णव्यथाभरः (रम्)॥ अत्र मेघस्य नाद इव नादो यस्य स मेघनादः इन्द्रजिच्च । धावन्तो द्विषन्नागाः शत्रुश्रेष्ठा यस्मात् स चासौ कुम्भकर्णश्च तस्य व्यथाभरः । अन्यत्र घावद्विषतां ये नागाः तेषां कुम्भसदृशकर्णव्यथाभर इत्यर्थश्च । अत्र एकेनेन्द्रजिता द्रव्येण सह कुम्भकर्णव्यथाधानरूपक्रियायाश्च विरोधः । अत्रापि श्लेषमूलत्वेन। गुणस्य गुणेन सह विरोधो यथा
वितीर्णमन्मथमते वपुषा नञ्जभूपते।
श्यामाऽपि रक्ता तन्वङ्गी श्लाघते भवते सदा ॥ अत्र श्यामा-नीला रक्ता-अरुणा, युवतिः अनुरागयुक्ता च । ततश्च श्यामरक्तत्वरूपगुणयोर्विरोधः। गुणद्रव्याभ्यां विरोधो यथा
विभाति वीरन न्दोरनञ्जनयशकरः ।
उग्रसेनोपरि देषी खड्गः कृष्णोऽपि सर्वदा ॥ अत्र उग्रसेनो नाम राजा, तदुपरि द्वेषी । उग्रसेनाः शत्रुसेनाः, तदुपरि देषी । कृष्ण:-नीलवर्णः, बलरामानुजश्च । तथाचैकेन कृष्णेन द्रव्येण सह देषस्य गुणस्य विरोधः। द्रव्यस्य द्रव्येण सह विरोधो यथा
सिंहसंहननो राजन् अग्रगण्योऽपि दानिनाम् ।
राजमौलिश्च नझेन्द्र क्षमाभर्त्ता भुजे भवान् ॥ अत्र सिंहस्य संहननं शरीरम् । तद्वान् सिंहसंहननः । उत्कृष्टाङ्ग इत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com