SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ बिलास..] अलङ्कारप्रकरणम् । र्थश्च । 'वराङ्गरूपोपेतो यः सिंहसंहननो हि सः' इति कोशोक्तिः । दानिनां गजानां दातृणां च अग्रगण्यः ऐरावतः श्रेष्ठश्च । राजमौलिश्चन्द्रचूडः राजश्रेष्ठश्च । भुजे क्षमाभर्ता विष्णुः धुरन्धरश्च । अत्र सिंहसंहननस्य द्रव्यस्याप्रगण्यस्य च राजमौले क्षमाभतुश्च विरोधः । इत्येवं दशविधा विरोधाभासा॥ अयं श्लेषेणापि सम्भवति । यथा विभो नञ्जमाप प्रणतजनरक्षानिपुण यो भवान् मित्रानन्दप्रकटनविधौ शीतलगुणः । स एवायं चेतोनिरवधिकसन्तापजनने शरत्कालः कालः समजनि तवारिक्षितिभृताम् ॥ अत्र यः शीतलगुणः स एव कालो जात इति विरोधः । अथ विरोधगर्भालङ्कारा निरूप्यन्ते। 'आधाररहिताधेयमेकञ्चानेकगोचरम् । अशक्यवस्तुकरणं विशेषालकृतिस्त्रिधा॥' यत्र प्रसिद्धाधारमन्तरेणाधेयं निवध्यते स एको विशेषः, एकस्यानेकगोचरत्वे द्वितीयो विशेषः, किञ्चिदारभ्याशक्यवस्त्वन्तरकरणे तृतीयो विशेषः। तत्र प्रथमं यथा रामचन्द्रे हरिश्चन्द्रे चलितेऽपि तदाश्रितम् । यत्सत्यभाषणं तत्तु त्वयि नझेन्द्र दृश्यते ॥ अत्र रामचन्द्रहरिश्चन्द्रयोः प्रसिडाधिकरणयोरभावेऽपि तदाधेयस्य सत्यभाषणस्य नञ्जेन्द्रे कथनादयमेको विशेषः । द्वितीयो यथा पार्श्वव्येऽपि पुरतः परतो बहिर्वा चित्तेऽपि नञ्जनरपालकमीक्षमाणा। कन्या कपोलविलसत्पुलकाडरश्रीः काचिनिशां नयति कामशराभितप्ता ॥ अत्र एकस्यैव नञ्जराजस्य सर्वदिक्षु गोचरत्वेन कथनात् द्वितीयो विशेषः। तृतीयो यथानञ्जक्षमापाल तव प्रतापं यशश्च धाता भुवि निर्मिमाणः । अस्तस्थितिं नैव गतौ कदापि प्रभाकरेन्दू सृजति स्म नव्यौ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy