SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९४ नजराजयशोभूषणम् । [विलास. अत्र धातुः प्रतापकीर्ती स्रष्टुमारभमाणस्य नव्यसूर्य[चन्द्र] सृष्टिकथनात् तृतीयो विशेषः। अथ आधाराधेये वैचित्र्यादधिकालङ्कारो निरूप्यते । 'आधाराधेययोरानुरूप्याभावोऽधिको मतः ।" यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सोऽधिकोऽलङ्कारः । स विविधः । आश्रयस्याल्पत्वमहत्त्वाभ्याम् । तत्र प्रथमं यथा सप्तान्तरीपमहितामवनी सलीलं दंष्ट्र[]ञ्चलेन वहति स्म य एव देवः । तेनापि वोढुमधुना नियतं न शक्या नञ्जक्षितीन्द्र जनरञ्जनचातुरी ते अत्र लीलयाऽखण्डमहीमण्डलधारिणोऽपि देवस्य ननक्षितीन्द्रजनरसनचातुरीभरणस्याशक्यत्वकथनादाधेयस्याधिक्यम् । आधाराधिक्यं यथासर्वस्यापि चराचरस्य वसतिं लोकत्रयं पर्यगा दब्जाक्षश्चरणैस्त्रिभिः स च रणे येनैव वाणीकृतः । सोऽपि प्रेक्षणकोणमात्रजनितोबेल्लद्दयासागरो देवो नञ्जमहेन्द्रमानससरोजातस्य भृङ्गायते ॥ तादृशस्यापि देवस्य भृङ्गायमाणत्वकथनात् नझेन्द्रहृत्पद्मस्याधिक्यम् । कारणेन विना कार्यस्योत्पत्तिः स्यादिभावना । सति कारणपौष्कल्ये विशेषोक्तिः फलं न चेत् ॥ यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र कारणसाकल्येऽपि फलस्यानुत्पत्तिः सा विशेषोक्तिः । यथा श्रुते ननक्षमापे श्रवणभयदोर्दण्डचलिते विना वहिस्पर्शादपि रिपुमहीपालललनाः । असूर्यपश्या अप्यधिकतरसन्तापभरिता भवन्त्यासामस्मादपि न हृदये जीवनरुचिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy