SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ बिलास. ७ 1 १९५ अत्र रिपुमहीपालललनानां वह्निसूर्ययोः सन्तापकरणत्वेन प्रसिद्धयोः संस्पर्शाभावेऽपि सन्तापकथनाद्विभावना । अत्रैव आसां स्त्रीणां अस्मादपि - सन्तापभरणादपि हृदये जीवनरुचिर्नेत्यनेन सन्तापभरणस्य सलिलेच्छाजनकत्वेन प्रसिद्धस्य सस्वेऽपि जीवनपदइलेष प्रतिभोल्लासित सलिल रुचेरजननाद्विशेषोक्तिश्च । कार्यकारणविरोधप्रस्तावादसङ्गतिरुच्यते । असङ्गतिर्हेतुफले भिन्नाधिकरणे यदि । अलङ्कारप्रकरणम् । यत्रैकदेशवर्त्तिनोरपि हेतुफलयोर्भिन्नदेशस्थितिर्निबध्यते तत्रासङ्गस्यलङ्कारः । न च विरोधान्तर्भावः शङ्कयः । सामानाधिकरण्ये विरोधः । वैयधिकरण्ये त्वसङ्गतिरिति व्यवस्थितेः । यथा - नजेन्द्र भवता खड्गो मोचितः कोशबन्धनात् । द्विषद्वधूटी धम्मिल्लैर्विप्रकीर्ण समन्ततः ॥ अत्र खड्गस्य बन्धनान्मोचनं धम्मिल्लविप्रकीर्णतेति हेतुफलयोर्वैयधिकरण्यस्थितेरसङ्गतिरियम् । विरोधप्रस्तावाद्विचित्रं निरूप्यते । 'विचित्रं स्याद्विरुद्धस्य फलस्याप्त्यै समुद्यमः ।' यत्र विरुद्धफलप्राप्तये समुद्योगस्तत्र विचित्रालङ्कारः । यथा नजेन्द्र नयनत्राणामाशां वर्धयितुं त्वया । आशामुखे द्विषां दत्ताः स्वसेनापदधूलयः ॥ आशां वर्धयितुं आशामुखे सेनाचरणरजसां दानमिति विरुद्धफलाय समुद्योगकथनाद्विविचित्रालङ्कारः । अथान्योन्यस्य विरोधमूलत्वादन्योन्यं निरूप्यते । ' तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् ।' यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तत्रान्योन्यम् । यथागुणा भूषायन्ते सहजमधुरा नञ्जनृपतेः कृतेरस्या एते त्रिजगति धुरिणा अपि तया । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy